पृष्ठम्:श्रीसुबोधिनी.pdf/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
जन्मप्रकरणम्अध्यायः


स्याजातत्वात् सत्त्वाश्रयणं भवतु नाम । ज्ञानस्य सिद्धफलदातृत्वात् । असिद्धफलेऽपि साक्षादेव फलजननसम्भवात् तज्ज्ञाने तत्साधने तपसि वा भगवतः सत्ववपुर्नापेक्ष्यत इत्याशङ्क्याह-


 सत्त्वं नचेद् धातरिदं निजं भवेद्
 विज्ञानमज्ञानभिदापमार्जनम् ।।
 गुणप्रकाशैरनुमीयते भवान्
 प्रकाशते यस्य च येन वा गुणः ॥ ३४ ॥


सत्त्वं नचेदिति ॥ इदं शुद्धसत्त्वं सर्वरक्षकं सर्वकर्मफलदातृ चेन्न भवेद् विज्ञानमपि न भवेत् । सत्त्वात् सञ्जायते ज्ञानमिति सत्त्वाभावे ज्ञानं न स्यात् । न च शास्त्रसिद्धन सत्त्वगुणेन ज्ञानमुपस्थापयितुं शक्यते । परकीयत्वात् । यस्मिन् क्षणे शास्त्राऽनुसन्धानं तदर्थानुष्ठानं वा तदैव तत्सत्त्वमाविर्भवति । तद्धर्मत्वात् । इदं तु निजम् । न च तैरपि स्वमूलकारणभूतं सत्त्वगुणमुत्पादयितुं शक्यते तेषां कर्तृत्वाभावादिति ज्ञापयति ॥ हेधातरिति॥ विज्ञानमनुभवः। स च सत्त्वैकरूपेअन्तःकरणे भवति । यथा यथा च विशुद्ध्यते तथा तथा अकामहतो भवतीति शुद्धसत्त्वाविर्भाव एव विज्ञानं युक्तम् । यथा उत्पन्ने जगत्यन्ने सत्यां क्षुधि अन्नसंपादनं सुकरम् । न तु क्षुदनन्तरं तत्सम्पादनं शक्यम् । अतो भगवता सत्त्वे आविर्भाविते तत्कृपया भगवता सह सत्त्वमपि हृदये समागच्छेद्, न त्वन्यथा निषिद्ध्यमानं शास्त्रीय भविष्यतीत्याशङ्क्या विशिनष्टि॥ अज्ञानभिदापमार्जनमिति॥ अज्ञाननाशकं विज्ञानम् आत्मानुभवः । भेदनाशकं तु भगवद्विज्ञानम् । उभयोः साक्षात्कारे देहायध्यासनिवृत्तिः । शुद्धाद्वैतं च स्फुरति ।



 उभयोः साक्षात्कार इत्यादि । आत्मसाक्षात्कारस्य फलमध्यासनिवृत्तिः । द्वितीयस्याद्वैतस्फूर्तिः । वैदिकमार्गे हि प्रमेयं, स हैता-