न्त्यथापि हीति ।। हे देव सर्वपूज्य, क्रियायां श्रौत्यां तान्त्रिक्यां
च नामरूपे प्रतियन्ति । विष्णोर्नु कं, तदस्य प्रियम्, इदं
विष्णुः, प्रतद्विष्णुः, षडक्षरादिरामादिमन्त्राश्च । यस्यै देवतायै
हविर्गृहीतं स्यात्तां मनसा ध्यायेद्वषट् करिष्यनितिश्रुतेर्ध्यानादिविधानाच्च ।
नामरूपाभावे ध्यानं मन्त्रश्च नभवेताम् । इमामेवोपपत्तिमाह हिशब्दः।
अत एव तदन्यथानुपपत्त्या प्रतियन्ति । यतः प्रतियन्ति । अतः
प्राकृतत्वाभावाद्दिव्यान्येव तान्यानन्दमयानीत्यऽध्यवसीयन्ते ॥ ३५ ॥
एवं सर्वाण्येव रूपाणि नामान्यानन्दमयानीति तानि सर्वपुरुषार्थसाधकानि निरूपितानि । तैः फलमाह-
शृण्वन् गृणन् संस्मरयंश्च चिन्तयन्
नामानि रूपाणि च मङ्गलानि ते॥
क्रियासु युष्मञ्चरणारविन्दयो-
राविष्टचित्तो न भवाय कल्पते ॥ ३६॥
शृण्वन् गृणन्निति ॥ साङ्गानि कर्माणि वैदिकान्यवश्यं
फलदातृणि । यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु *।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतमिति स्मृतेः । सम्पूर्णं
चेन्जातं, फलं जनयेदेव । तच्च फलं मोक्ष एवेति स्वर्गपदविचारे
निवन्धे निरूपितम् । तदेवात्राप्याह ।। ते नामानि शृण्वन्
परैरुचारितानि रूपाणि च कीर्त्य॑मानानि ये शृण्वन्ति, तदनुगृणन्ति ।
उभयविधान्यपि श्रोतरि सति । अन्यदा स्मरन्ति । तदपि स्मरणं
ध्यानरूपमिति संस्मरणमुक्तम् । चकारात् स्मारयन्नुपदेशादिदानेन
श्रावयन् वादयन्नपि चिन्तयन् योगाङ्गध्यानत्वेन तथैव चित्तनिरोधेन
नामावृत्तिर्नामध्यानम् । अप्रयत्नश्चित्तव्यापारः स्मरणं,
सप्रयत्नश्चित्तव्यापारश्चिन्तनमिति-