पृष्ठम्:श्रीसुबोधिनी.pdf/२४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
जन्मप्रकरणम्अध्यायः

नाद्रियत इत्याकाङ्क्षानिरासस्तु भगवद्वाक्यस्थांशभागपदस्य करणभूतस्योपादानाच्छुकेनैव भगवदावेशबोधनात्कृत इति चतुर्ग्रहरूपेणैव भूमौ पुरषोत्तमप्राकट्यम् । ननु मूलरूपेणेति शङ्कास्यात्तन्निरासायाहुः । पुरुषोत्तमस्त्वित्यादि । मानाकाक्षायां श्रुतार्थापत्तिं प्रमाणयति । अन्यथेत्यादि । नन्वत्र प्रादुर्भावो नोच्यते प्रकरणाभावात् । किन्तु श्रीयशोदादिप्रतीतिरेवानूद्य ततो नेदमत्रमानमित्याकांक्षायामाहुः । माययेत्यादि । तृतीयाध्याये रूपान्तरं यदुक्तं तन्मायाकरणकंतस्य करणभूतामाया च चतुर्थाध्याये अदृश्यतानुजाविष्णोरित्यनेनानुजात्वेन रूपिता सच शब्दो रूढः सोदरत्वलक्षणसामानाधिकररण्यमन्तरेणानुपपद्यमानस्तत्सोदराग्रजत्वेन भगवन्तं गमयति तदेव पूर्वोक्तवाक्यात् नितरां न्युपोद्बलयति । नचानुजत्वं केनाप्यवतारकालीनेनावमतं येन तत्प्रतीत्यनुवादत्वं वक्तुं शक्येत यतो यादिदं शुकेनोक्तं । तन्नन्दग्रहे भगवतो माया ज्शज्ञप्तुः शक्तिसाहित्येन भगवतः प्रादुर्भावबोधनार्थमेवोक्तमिति निश्चयः । एवं चांशभागेनोत्पाद्य कथनादत्र केवल एव प्रादुर्भूत इति सिद्धोऽर्थस्तदेतदुक्तं माययेत्यादिना अयमेव शुकस्याशय इति दृढीकरणार्थमाहः। उत्पत्तरित्यादि । अन्यथा उत्सवस्य राज्ञा अदृष्टत्वाच्चतुर्थाध्यायोत्तरं व्रजे वसन् किमकरोदित्यस्योत्तरभूतपूतनामोक्षादिकमेव वदेन्नतु संभ्रमं । अतएतदुपोद्धातत्वेनैव तस्योक्तिरिति शुकस्यायमेवाशय इत्यर्थः । अतः परमेकारूपवयदर्शनापत्तिशङ्काऽवतिष्टते तामपाकर्त्तुं तामनुवदन्त एवास्य भावं टिप्पण्यामाहुः । अत्रायं भाव इत्यादि । ननु नन्दग्रहआविर्भूतस्यैव तिरोधानं वाच्यमतआहुः । प्रागित्यादिकार्यमिति । अविहितभक्तिरसानुभावनरूपं नास्यरूपञ्च कार्य । स इति कार्यार्थः प्रादुर्भावः । एवञ्चैकदेवोभयत्र प्रादुर्भावः प[१]श्चाध्याय्यामिवति झाप्यते । रूपद्वयदर्शनापत्तिस्तु दर्शनस्य स्वेच्छाधीनतयैव परि[२]छैदाऽवभानवत्परिहृताज्ञेया । नन्वस्य रूपान्तरत्वेन भासमानस्य पुरुषोत्तमत्वेऽनेन व्यूहकार्यकरणासम्भय इत्यत आहुः । पूर्वेत्यादि । एतेनैव मतान्तरानादरणे वीजमप्युक्तप्रायाननु बभूव प्राकृतः शिशुरित्यनेनोक्तस्य पुरुषोत्तमरूपत्वे किमानं मायाकरणकं रूपान्तरमतआहुः । रूपान्तरेत्यादि । तथाच मूले प्रा-


 १ समीप स्थितापि तासामदर्शनम्।
 २ अपरिछि ने भगवति पििछनत्वेन ज्ञानवत् ।