पुत्रानिति बहुवचनानुरोधेन तावत्कालं स्थापनम् । प्रतियातु
व्याघुट्य गृहे यातु । अयं ते कुमारो, न तु मन्मारकः ।
अमारणे हेतुः-न ह्यस्मादस्ति मे भयमिति ॥ तर्हि समयबन्धो
गत इति न आशङ्कनीयम्। यस्माद्यवयोरष्टमगर्भान्मे मृत्युर्विहित
इति । सतमानीय देय इत्यभिप्रायः । अत एव
नारदादीनामेतदसंमतम् । न हि भगवद्भक्तानामन्यनिष्ठाप्युचिता ।
अतोऽन्यथाकरणमप्युचितम् । किलेत्याकाशवाणीप्रतिसन्धानम् ॥ ६०॥
तत्त्रियार्थमेव नयनमिति प्रकारान्तरेणापि तस्मिन् प्रीते पुत्रत्यागो न युक्त इति तद्वाक्यमङ्गीकृत्य पुनरानीतवानित्याह--
तथेति सुतमादाय ययावानकदुन्दुभिः ॥
नाभ्यनन्दत तवाक्यमसतोऽविजितात्मनः ॥६१ ॥
तथेति ॥ स्वयमेव गृहीत्वा ययौ । अविश्वासे हेतुः-
आनकदुन्दुभिरिति ॥ अतिक्लेश एव भगवदागमनं न स्वास्थ्ये ।
आनकदुन्दुभयश्च नेदुर्भगवदागमनार्थम् । तदुभयं विरुद्ध्यते ।
अतो देवकृतस्य सत्यत्वात् कंसकृतमेवासत्यमिति मत्वा
नाभ्यनन्दत । तस्य कंसस्य वाक्यम् एनं न
मारयिष्यामीत्यभिप्रायपूर्वकम् । तत्र हेतुद्वयमाह ॥ असतः-
अविजितात्मन इति । असन् सर्वदा नैकविधोऽस्थिरवाक् च,
घातकश्च । स्वतो युक्ति- दार्ढ्यरहितश्च ।। अतः केनचित्
प्रथम एवाष्टम इति ज्ञापिते मारयिष्यत्येव । तस्मादसतो न
विश्वासः कर्त्तव्यः ॥ ६१ ॥
किञ्च, नान्यवाक्यमपि तस्यापेक्ष्यते । यदैव राक्षसैर्भक्ष्यार्थं पुरुषाः प्रार्थयिष्यन्ते, तदैवैतान् घातयिष्यति । क्रोधोद्गमहेतूनां
मिति शायते । तथाच निग्रहे गर्भासंभव इति ।
अत एव, जातं जातमिति न कालभेदज्ञापकमित्यग्रे वक्ष्यते ॥
भगवतस्त्वलौकिकी रीतिरिति नानुपपत्तिः॥