सम्भवात् । आजितान्तःकरणत्वादुत्पन्ने क्रोधे न विलम्बः।
महतामन्तःकरणमेव प्रमाणमिति तथैव जातमित्याह--
नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषितः ।।
वृष्णयो वसुदेवाद्या देवक्याद्या यदुस्त्रियः ॥ ६२।।
नन्दाद्या इति, अष्टभिः ॥ वसुदेवे कंसकृतं देवानां
हितकारि न भवतीति देवगुह्यकर्त्ता नारदः पर्यवसानानिष्टकर्तारं
वसुदेवं पीडयितुं दैत्यरूपं कंसं चोद्वेजयितुं शीघ्रं भगवदागमनार्थं
साधारणान् पिडयितुं वाक्यत्रयमुक्तवान् । तदाह । ये यमुनापारे
व्रजे गोपा नन्दादयः । अमीपां च स्त्रियो यशोदाप्रभृतयः।
चकारादन्या अपि कुमारिकाः । अस्मिन्नपि कूले
वृष्णिवंशोद्भवा वसुदेवादयो देवक्याद्याश्च यदुवंशोद्भवानां स्त्रियः ॥६२ ।।
एवमेकेन सर्वाननूद्य देवत्वं विधत्ते-
सर्वे वै देवताप्राया उभयोरपि भारत ।
ज्ञातयो बन्धुसुहृदो ये च कंसमनुव्रताः ॥ ६३॥
सर्व इति । स्त्रियः पुरुषाः सर्व एव देवताप्रायाः। ईपदस-
माप्तदेवाः । मानुषभावस्याऽपि विद्यमानत्वात् । अतो देश्षु
यत् कर्तव्यं तदेतेष्वेव कर्तव्यमिति ज्ञापितम् ॥ उभयोरिति ।।
रोधसोर्येकचित्तिष्ठन्ति पश्वादयोऽपि तेऽपि देवांशाः । भारतेति
सम्बोधनम् एतदाहेत्यनेन सम्बद्ध्यते । नारदस्य तथाकथन-
ममन्वानस्य विश्वासजनकं देवगुह्यमेतादृशमेवेति किञ्च न
केवलमुदासीना एव देवाः, किन्तु कंसनिकटवर्तिनोऽप्यक्रूरादयः ।
ये ज्ञातयो गोत्रिणः कंसस्य ये बान्धवाः सम्बन्धिनो ये वा सुहृदो
मित्राणि । ये च कंसस्य सेवकाः। चकारात् पित्रादयोऽपि ॥६३॥
सर्वे देवतापाया इति कंसाय नारदः प्राहेत्याह-