भवेत् ।। पूर्व सामान्यतो विरोधमुक्त्वा शीघ्रं भगवदागमनार्थं लोके कंसकृतमत्युपद्रवमाह सार्द्धैस्त्रिभिः-
श्रीशुक उवाच ॥
प्रलम्बबकचाणूरतृणावर्तमहाशनैः ।।
मुष्टिकारिष्टद्विविदपूतनाकेशिधेनुकैः॥ १॥
प्रलम्बेति ॥ प्रलम्बो दैत्यो दैत्यरूपेणैव वर्तते । बको
दैत्यः पक्षिरूपेण । चाणूरो दैत्यो मनुष्यरूपेण । तृणावर्ती
राक्षसो वात्यारूपेण । एत एव महाशनाः। बहुभक्षकाः । अनेन
यदूनां कदनं चक्रे इत्यत्र यादवा भक्षिता इत्यपि ज्ञापितम् ।
महाशनोऽघ इति केचित् । तत्र नामसु यौगिकप्रवेशश्चिन्त्यः ।
मुष्टिकश्चाणूरवत् । यथा प्रलम्बो बलभद्रहतः प्रथमनिर्दिष्टस्तथा
मुष्टिकोऽपि । अरिष्टो वृषरूपो बकवत् । द्विविदो वानरः । पूतना
राक्षसी । केशी अश्वात्मकः । धेनुको गर्दभात्मकः ॥१॥
अन्यैश्चासुरभूपालैर्बाणभौमादिभिर्युतः ॥
यदूनां कदनं चक्रे बली मागधसंश्रयः ॥ २ ॥
अन्ये चैवंविधाः शतशः सन्ति । असुरा भूत्वा ये भूपालाः।
बाणो बलिसुतः । नरको भौमः । आदिशब्देन जरासन्धादयः
गुप्तान् यदून् प्रलम्बादयो बाधन्ते । प्रकटान् बाणादयः ।
एवमेतैर्यदूनां कदनमन्यायनाशं चक्रे । एतेषामाज्ञाकारित्वे हेतुः ॥
स उच्यत इत्यर्थः ॥ अथवा महत्त्वं पुरुषोत्तमत्वं तज्ज्ञापनाय
सविशेषणः स उच्यत इति सम्बन्धः । असाधारणत्वेनेतरेभ्यो
व्यावर्तको धर्मो हि विशेषणम् । तदत्र मायाज्ञापनमेकम् ।
न हि ब्रह्मादिव्यामोहिकां तामन्य आज्ञप्तुर्महति, सान्याधीना
वा भवति । वसुदेवदुरासदत्वादिकं, देवक्यां
स्वहन्तृज्ञानेऽप्यासुरभावत्याजनं कंसस्य, ब्रह्मादिस्तुतिश्च ॥