पृष्ठम्:श्रीसुबोधिनी.pdf/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
जन्मप्रकरणम्अध्यायः


ते उभये तस्य स्थानस्यालङ्करणभूताः । तैरेव तत्रत्या शोभा। योऽन्यस्तिष्ठति स तु तदनुगुण एवेति तेषामप्रतिवन्धो निरूपितः । अतो दर्शनादेव तत्र सुखं निरूपितम् । तत्र गतायाः किं प्रयोजनमित्याकाङ्क्षायामाह ।। रोहिणीति ॥ वसुदेवस्य भार्या रोहिणी तत्राऽऽस्ते । स्थितौ का सम्बन्ध इत्यत आह ॥ नन्दगोकुल इति ॥ नन्दसम्बन्धिगोकुले । अनेन नन्दवसुदेवयोभ्रातृत्वं द्योतितम् । अत्र पादद्वयमधिकं, किमिति तिष्ठतीत्याकाङ्क्षार्थं निरूपितम् । अन्याश्च स्त्रियो वसुदेवस्यान्येषां वा कंससंविग्नाः सत्यो विवरेषु गुप्तस्थानेषु वसन्ति । भयदशायां तथैव स्थितियुक्तति हिशब्दार्थः ॥ ६ ॥


ततः किमत आह-


 देवक्या जठरे गर्भं शेषाख्यं धाम मामकम् ॥
 तत् सन्निकृष्य रोहिण्या उदरे सन्निवेशय ॥ ७ ॥


 देवक्या इति ॥ जठर इति इतरगर्भवैलक्षण्यार्थम् ॥ तदिति प्रसिद्धम् । ततः सन्निकृष्य रोहिण्या उदरे सम्यग निवेशय । किं तद्गर्भरक्षायामित्याकाङ्क्षायामाह ॥ शेषाख्यमिति ॥ शोष इत्याख्या यस्य । तस्मिन्नष्टे भूमिरेव निमग्ना भविष्यतीति । ननु तस्याऽऽकर्षणे नाशशङ्का स्यादित्यत आह॥ मामकं धामेति॥ भगवत्तेजोरूपम् । भगवतोऽपि स्थानभूतं वा न नश्यतीति ॥७॥

 तर्हि स्थितावेव कंसभयाभावात् को दोष इतिचेत्तत्राह-


 अथाहमंशभागेन देवक्याः पुत्रतां शुभे॥
 प्राप्स्यामि त्वं यशोदायां नन्दपत्न्यां भविष्यसि ॥८॥


 अथाहमिति ।। अयं पुरुषोत्तमो यो मायामाज्ञापयति । भक्तिमार्गे तस्यैव सेव्यत्वाद् आरम्भे, यदूनां निजनाथानामिति वचनात् । स चतुर्द्धाऽत्र समायास्यति । तदर्थमाह ॥ अथ शीघ्रं