मात्मानं लभन्ते । रूपाणां ग्रहणस्यान्यदपि निमित्तमित्याह ।।
क्षेमाय लोकस्य चराचरस्येति ॥ चराचरशब्देन ब्राह्मणाः
क्षत्रियाश्चेति न्यायविदः । चराः प्राणिनः, अचरा भूरादयः ।
उभयेषामपि क्षेमाय । अनेनैहिकफलदानार्थमपि भगवदवतार
इति गुणैर्ब्रह्मादीनामपि भगवत्त्वाद्रजसा तमसाऽप्यवतारः
सम्भवतीति तद्व्यावृत्यर्थमाह ।। सत्त्वोपपन्नानि लोकानुसारीणि
मत्स्याऽऽदीनि । ब्रह्ममहादेवयोरप्याधिदैविकयोरप्यवताराः
सत्त्वरूपा एव । तत्र निदर्शनं, सुखावहानीति ॥ ये सर्वप्राणिषु
सुखमावहन्ति पक्षपातस्तोत्रत्वाद् दैत्यानामपि मुखदानि
भविष्यन्तीत्याशङ्क्याह । सतामेव सुखदानि ।। खलानां त्वभद्राणि ।।
लक्षणपूर्वकं दैत्यानां निर्देशः ॥ खलानामिति ॥ सर्वदोषनिधानं
खलाः, ये परेभ्यो दुःखदातारः ॥ मुहुरिति ॥ सर्वेषां खलाना
वारं वारम् ॥ २८ ॥
एवं लौकिकप्रकारेण चतुर्णा निरूपणमुक्त्वा स्मृतिप्रकारेण
त्वय्यम्बुजाक्षाखिलसत्त्वधाम्नि
समाधिनावेशितचेतसैके ॥
त्वत्पादपोतेन महत्कृतेन
कुर्वन्ति गोवत्सपदं भवाब्धिम् ॥ २९॥
त्वयीति चतुर्भिः ॥ स्मृतिषु योगो धर्मः । स च योगो
बहुविध इति यो देवहितो धर्मरूपस्तं निरूपयति। हे अम्बुजाक्ष ।
अखिलसत्त्वधाम्नि त्वयि समाधिना आवेशितचेतसा करणेन
चराचरशब्देनेत्यादि ॥ यस्य ब्रह्म च क्षत्रं चोभे भवत ओदन इति श्रुत्यर्थनिर्णयं कुर्वन् ,अत्ता चराचरग्रहणादिति सूत्रे विषयवाक्योक्तब्रह्मक्षत्रे चराचरशब्देन व्यासो वदति तथेति ज्ञेयम् ॥