सौहृदं सार्थकमेवेति तेषामवश्यमुपायकरणम् । तमुपायमाह ॥
भवत्पदाम्भोरुहनावामिति ॥ तेषु उत्तीर्णेषु तदनुसरणेनैव
भूयान् संसारो गत इति पोतरूपोऽपि पादः सुखदः सर्वप्रदर्शकः ।
तत्कृपया अनतिगम्भीरोऽम्भोरुहनौकारूपो जातः । समुद्रश्च
नदीरूपो जातस्तदाह ॥ भवत्पदाम्भोरुहनावमित्यत्रैव निधाय
याताः ॥ ननु ते महता प्रयासेन भगवन्तमाराध्य वशीकृत्य
चरणमारुह्य सर्व चरणे निवेश्य याताः । तदुपदेशिनस्तु तद्विधा
इति कथं तरणं भविष्यतीत्याशङ्क्याह ॥ सदनुग्रहो भवानिति ।।
सत्सु अनुग्रहो यस्य ।। भवानित्यस्मिन्नर्थे सम्मतिरुक्ता ॥३०॥
साधनं महतामुपदेशप्रकारः। स च अर्थादुक्त इति साधननिरूपणे तदतिरिक्तसाधनान्येव निराकरोति-
येऽन्येऽरविन्दाक्ष विमुक्तमानिन-
स्त्वय्यस्तभावादविशुद्धबुद्धयः॥
आरुह्य कृच्छ्रेण परं पदं ततः
पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः ॥ ३१॥
येऽन्येऽरविन्दाक्षेति ॥ अन्ये निरीश्वरसांख्यानुवर्तिनः।
ते हि पूर्वज्ञानाऽनुसारेण भगवन्तमुपासते । एवं बहुजन्मभिः
प्रवृद्धं ज्ञानं विकर्मसहितं भगवदंशमात्मत्वेन स्फुरितं
त्याजयित्वा निरीश्वरसांख्यं मायावादं वा अवलम्बन्ते ।
ते चेत् पूर्ववदपि तिष्ठेयुम्तथा सति कृतार्था भवेयुः ।
तथा बुद्धिर्विकर्मफला । ते च पूर्वज्ञानेन
देहेन्द्रियप्राणान्तःकरणाध्यासरहिता जाताः । महता कष्टेन
सर्वस्वदक्षिणया सर्वबन्धुपरित्यागेन सर्वसुखवैमुख्येन तपसा
श्रद्धया ब्रह्मात्मभावनां प्राप्तवन्तः ।
सम्यग्वायुसञ्चारो नाडीशुद्ध्या भवतीति तदर्थमपेयपानादिकं यत्तदेव विकर्मेति ज्ञेयम् । एतदुक्तं विकर्मसहितमित्यनेन ॥