पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३३ )

अर्जुनो वदति स्माहं, गुरूपायनकारकः ।
वाणीं रचित्वा मधुरां, कबीराय निवेदये ॥ १२ ॥

आश्चर्यं दृढमीदृगास सकलं दृष्टं मया सञ्जना
दघ्नो भ्रान्तिवशेन नीरलुठनं कुर्वन्ति भ्रान्ता जनाः ।
अङ्करं हरितं चरत्यहह रावं गर्दभः सङ्कलन
मत्तो माहिषकोऽप्रयोजनतया कूर्दनधो याति च ॥ १३ ।।

आवेयी पिबति स्वयं ह्यविसुतं सम्भ्रान्तलीलायुतं
कामार्ताः खलु वुद्धयो विमुखता देहात्मनिष्ठां गताः ।
दुःखानित्यकपूयकात्मरहितं देहादिकं भ्रान्तितो
सौख्यं नित्यपवित्रमात्मनियतं जानन्त्यबुद्धथा हताः ॥ १४ ॥

गुरुप्रसादतो मया समस्तवाविचारिता
भजन् गृणन् हरिं सदा कलौ कृतार्थतामियात् ॥ १५ ॥

श्रीनारायणभजनं कुर्वन् श्वपचोऽपि निःकपटः।
नयहुतितपःसमाधिजफलं कवीरो हि समलभत ॥ १६ ॥

इति श्रीकृष्णकौरमिश्रविरचित श्रधङ्के श्रीवायानानकाङ्गद-
अमरदासरामदासार्जनगुणगणमाहात्म्यकथनं नाम

सर्ग एकादशः समाप्तः ॥ ११ ॥

द्वादशः सर्गः।
हरिगोविन्दहरिरायहरिकृष्णगुणगणमाहात्म्यकथनम् ।

षष्ठो हरिगोविन्दो राजति गुर्वासने तिष्ठन् ।
तत्पार्श्वे मन्त्रिजनो म्लेच्छपतेरेकदा प्राप्तः ॥१॥

कार्यव्यग्रतया तं नातवान् स्वेच्छया गुरुः प्रकटः।
स क्रुद्धो विमतिरयं चिन्तितवान् हन्मि खड्गतश्चैनम् ॥ २ ॥