पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ..] श्वेताश्वतरोपनिषत् ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निरुढाम् । ते इति । एवं ध्यानयोगयुक्ता मुनयः, 'अपहतपाप्मा दिव्यो देव एको नारायणः ' इति श्रुतिप्रसिद्धदेवशब्दितनारायणात्मिकां कार्योपयोग्यपृथक्सिद्धविशेषणत्वेन शक्तिशब्दितां सत्त्वरजस्तमोलक्षणस्वगुणोपेतां ब्रह्मणो जगत्कारणत्वनिर्वाहिकां भूतानीति, योनिरिति च भौतिकपदार्थविषये युज्यते, न पुरुषादिविषये। न च भूतान्यचेतनानि स्वतन्त्राणि कार्यकराणि दृष्टानि । तानि च सुखदुःखेषु पुरुषाणां व्यवस्थया कथं कारणानि भवेयुः । सर्वेषामेषां केनचित् प्रकारेण कारणत्वेऽपि ईशनव्यापारलवलेशस्यापि तत्राभावेन न पुष्कलं कारणत्वम् । तदिदम् आत्माऽप्यनीश इति अपिना दर्शितम् । आत्मा तु पुरुषो यद्यपि क्वचिदीष्टे – अथापि अनीशः सुखदुःखहेतोः । न खलु स्वदुःखार्थं किञ्चित् स्वयमेव चेतनः सृजेत्। ननु कर्मयोगसिद्धाः केचित् कल्पारम्भे कलितजनयः सर्वेषां सर्वविधं जनयन्तीति चेत - त एव स्वात्मने दुःखहेतुं कथं कल्पयेयुः । तेषु एकोऽन्यस्य तत् कल्पयतीति चेत् - तर्हि परस्परकलहेन कल्पः प्रारम्भ एव प्रध्वनितः स्यात् । किञ्च ते किं जनित्वा सर्वं कल्पयन्ति अथाजनित्वा । अन्त्यो नोत्थातुमर्हति । आये तु जनिर्नाम देहेन्द्रियबुद्धिवेदनासंघातसंपत्तिः । सा च भूतपञ्चकाद्यधीना। तत, सर्वमिदं तदुत्पतेः प्रागेव यदि, ते कथं सर्वकारणम् ? इति रीत्या अत्र चिन्तनाप्रकारो द्रष्टव्यः । मूले योनिरिति प्रकृतिरुच्यते। भूतकारणवादिनश्चार्वाकादयः । तत्कारणभूतमात्राहङ्कारमहत्पूर्वतया प्रकृतेः कारणत्वं सांख्यसंमतम् । (२) उक्तकालाद्यतिरिक्तस्य तत्प्रेरकस्य सर्वेशितुः कस्यचिदेव कारणत्वं निष्याम तस्याप्यपरिणामिन उपादानत्वायोगात् उपादानान्तरस्वीकारे च तस्य सर्वविधकारणत्वभङ्गप्रसङ्गात् किं कार्यमिति विमृश्य यादशपदार्थस्वीकारे उपादानत्वमपि रक्षितं भवेत् , अवद्यावहचिदचिद्गतपरिणामविरहश्व पालितो भवेत् - तादृशपदार्थस्वीकारमध्यवसितवन्त इत्युच्यते ते ध्यानेत्यादिना । देवात्मशक्तिमिति । आत्मा द्विविधः जीवात्मा देवात्मा चेति । तत्र जीवात्मनः ब्रह्मरूद्रकपिलादेः कारणत्वं न कल्पते । देवात्मा तु कारणम् । देवात्मा नाम यः सर्वदा देव एव भवति, सः। तद भाष्यते, अपहतपाप्मा दिव्यो देव एको नारायण इति । दिधु क्रीडायामिति निष्पन्नेन देवशब्देन, लोकवत्तु लीलाकैवल्यमिति च दर्शितं भवति । शक्तिमिति अपृथक्सिद्धविशेषणरूपतया पदार्थस्वीकार प्रदर्शनात् उपादानत्वासंभवादिसर्वदोषनिस्तारः । शक्तिरित्यस्य कार्योपधायाकापृथक्सिद्धिविशेषणमित्यर्थः । उपयोगित्वं नाम कारणतावच्छेदत्वम्। तेन