पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुनमुनिविरचितमाष्ययुक्ता [अ.१. पञ्चस्रोतोम्बुं पञ्चयोन्युग्रवक्त्रां पञ्चप्राणोर्मि पञ्चबुद्धयादिमूलाम् । पञ्चावर्ता पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वामधीमः ॥ ५॥ सर्वाजीवे सर्वसंस्थे बृहन्ते तस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे । एवं चक्रत्वेन रूपयित्वा तच्छक्तित्वेन निर्दिष्टां प्रकृतिं वैराग्याय नदीत्वेन रूपयति पञ्चस्रोतः इति । स्रोतोरूपेणाविच्छिन्नतया प्रवर्तमानानि तमोक्षराव्यक्तमहदहङ्काररूपाणि अम्बुस्थानीयानि यस्याः सा तथोक्ता । महाभूतोपादानतया योनिभूतानि पञ्च तन्मात्राण्येव उग्रवक्त्राणि प्रवाहमुखरूपाणि यस्याः सा पञ्चयोन्युग्रवक्त्रा । प्राणापानादयः पञ्च ऊर्मिस्थानीया यस्याः सा पश्चप्राणोर्मिः । बुद्धेर्ज्ञानस्यादिभूतानि पञ्च ज्ञानेन्द्रियाणि मूलं यस्याः सा पञ्चबुद्धयादिमूला। पञ्च कर्मेन्द्रियाणि आवर्तस्थानीयानि यस्याः सा पञ्चावर्ता । पञ्च महाभूतानि अत्यन्तप्रतिकूलतया प्रवर्तमानानि ओघ वेगस्थानीयानि यस्याः सा पञ्चदुःखौघवेगा। अकारादिपञ्चाशद्वर्णलक्षणनामभेदयुक्ताम् , ' तमो मोहो महामोहस्तामिस्त्रो ह्यन्धसंज्ञितः' इति पुराणप्रसिद्धपञ्च (विध) सृष्टिलक्षणपर्वपञ्चकयुक्तां ब्रह्मात्मिकां प्रकृतिं तदधिष्ठितारश्च परमात्मानम् अधीमः स्मराम इति अपश्यन्निति पूर्वेणान्वयः । (५)

एवं किं कारणं ब्रह्म कुतः स्म जाता इति चिन्तायाः, 'देवात्मशक्ति', 'यः कारणानि निखिलानि तानी' त्यनेन च देवशब्दितनारायण एव सर्वकारणम् , अपरिणामिनोऽपि तस्य कारणत्वनिर्वाहिका प्रकृतिरिति निस्तारो दर्शितः । अधिष्ठिताः केन सुखेतरेषु' इति चिन्तायाः निस्तारं दर्शयति सर्वाजीवे इति । सर्वान् आजीवयतीति सर्वा जीवम् । अनेन, जीवाम केनेत्यस्योत्तरमुक्तं भवति । सर्वेषां संस्था समाप्तिः = प्रलयो यस्मिन् तत् सर्वसंस्थम् । अनेन च, 'क्व च संप्रतिष्ठे ' त्यस्योत्तरमुक्तं भवति । बृहन्ते बृहतीत्यर्थः । अतश्च निरतिशयबृहत्त्वादेव सर्वसंस्थत्वादिकं युज्यत इति भावः । तादृशे ब्रह्मरूपे चक्रे, हन्ति = गच्छति अनेकजन्मसहस्रसंचरणशील इति हंसः जीवः परवशतया, 1. ओधशब्दितेति पाठे ओघशब्दिततमअदिपञ्चकेति स्यात् । 2 सुखोत्तरेषु. 3. सर्वाजीवे.