पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति

R अ. १.] श्वेताश्वतरोपनिषत् पृथगात्मानं प्रेरितारश्च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ॥ ६ ॥ उद्गीत (थ) मेतत् परमं तु ब्रह्म तस्मिंस्त्रयं 'स्वप्रतिष्ठाक्षरश्च । 1. सुप्रतिष्ठा । 'भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया । इत्युक्तरीत्या ब्रह्मचक्रेण भाग्यमाणोऽयं भ्रमतीत्यर्थः । एतज्ज्ञानस्य फलमाह पृथगात्मानमिति । उक्तरीत्या भ्रमयितृत्वेन परमात्मानम् ' , तेन भ्राम्यमाणं तच्छरीरभूतञ्च स्वात्मानं मत्वा तज्ज्ञानप्रीतेन परमात्मना [प्रसन्नेन] जुष्टः प्रीत्या विषयीकृतस्सन् मुक्तिं प्राप्नोतीत्यर्थः । ततश्चामृतत्वफलप्राप्तिहेतुभूतज्ञानविषयस्य प्रेर्यप्रेरकलक्षणजीवपरभेदस्य परमार्थत्वमुक्तं भवति । ' अपरमार्थज्ञानस्य मोक्षहेतुत्वासंभवादिति द्रष्टव्यम् । (६)

उद्गीतमिति । एतच्चक्ररूपतया प्राङ्निर्दिष्टमेव, नारायणः परं ब्रह्म', 'स्वे महिम्नि प्रतिष्ठितः', 'एतद्वैतदक्षरं गार्गि ब्राह्मणा अभिवदन्ति ' इत्यादिवेदान्तवाक्येषु परब्रह्मत्वेन स्वप्रतिष्ठत्वेनाक्षरत्वेन चोद्गीतमुच्चार्गीतम् । उद्गीथमिति पाठेऽपि स एवार्थः । तस्मिन् स्वप्रतिष्ठाक्षररूपे ब्रह्मणि प्रकृतिपुरुषकालरूपं 1. परमात्मनः 2. अपारमार्थिक, 3. स्वप्रतिष्ठितत्वेन, 4. स्वप्रतिष्टिताक्षररूपे. प्रेरितारमिति । ईर क्षेपे। आधृषादित्वात् णिचो विभाषा। प्रेरयितारमित्यर्थः । ननु कथं पृथङ्मत्वेति पृथत्क्वानुसंधानविधिः, ' योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमिति, न स वेदेति तन्निषेधादिति चेन्न-तत्र 'आत्मेत्येवोपासीते' ति आत्मत्वोपासनविधानात् राजभृत्यन्यायेन भिन्नत्वेन पृथसिद्धत्वानुसंधानं निषिद्धयते । इह तु आत्मत्वानुसंधानोपयोगी शरीरत्वात्मत्वरूपपार्थक्यं वस्तुभेदो मन्तव्यतयोच्यते वस्त्वैक्यभ्रमव्यावृत्तये इत्याविरोधात् । आत्मत्वानुसंधानश्चेदम् , 'अहं ब्रह्मास्मी' ति एकशब्दामिलापानुगुणमिति च तत्रैव वृहदारण्यके व्यक्तम् । 'नन्वेतावता कालात्मप्रकृत्यधिष्ठाता ब्रह्मचक्रे पुरुषाणां भ्रमयिता प्रेरयिता देवात्मा कश्चित् सिद्धः । तावता ब्रह्म कारणमिति कथं सिद्धयति' इत्यत्र अयमेव ब्रह्मा अस्य ब्रह्मशब्देन कारण- समर्पकेण व्यवहारकाले उक्तसर्वविशेषणविशिष्टं ततः प्रतिपत्तव्यम् । विशिष्टाकारेण ह्यस्य स्थूलाव- स्थापनहेतुत्वरूपं बृहत्वापादकत्वमित्युच्यते उद्गीतमिति । स्वप्रतिष्ठाक्षरच्चेत्यनेन त्रयस्य ग्रहणायोगात् तस्य पूर्वान्वयविवक्षया सस्मिन् त्रयमित्यस्य मध्यनिविष्टस्य वाक्यात् पृथकारः। तस्य च, त्रयं तन्निष्ठमित्यर्थः । शिष्टस्य तु निरुक्तो देवात्मैव परमं ब्रह्म च भवति स्वप्रतिष्टाक्षरच्च भवतीत्यर्थः । अक्षरं द्विविधम् , ' अक्षरात् परतः परः' इत्युक्तं प्रकृतिरूपम् , 'एतद्वै तदक्षर गार्गी ' ति तदितरपरब्रह्मरूपञ्च । तत्र द्वितीयस्य