पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

___ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. १. अनान्तरं वेदविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः॥ ७ ॥ संयुक्तमेतत् क्षरमक्षरञ्च व्यक्ताव्यक्तं भरते विश्वमीशः । अनीशश्वात्मा बध्यते भोक्तृभावात् ज्ञात्वा देवं मुच्यते सर्वपाशैः॥८॥ त्रयमाश्रितमित्यर्थः । अवान्तरमिति । तत्पराः ब्रह्मपराः ब्रह्मेप्सवः अत्रेदृशे प्रकृतिपुरुषकालानां विवेके तेषां परमात्मनश्चापृथक्सिद्धतया आधाराधेयभावलक्षणम् अन्तरम् 'अतिशयितं भेदं विदित्वा प्रकृतिबन्धनिर्मुक्तास्सन्तः परमं साम्यं प्राप्य भिन्नतया अदर्शनलक्षणलयं गता इत्यर्थः । (७)

ननु प्रकृतिसंबन्धे जीवपरयोरविशिष्टे सति जीवस्य कुतो बन्धः? परस्य कुतो नेत्यत्राह संयुक्तमिति । ईशः परमात्मा व्यक्तरूपं क्षरमचिद्वर्गमव्यक्तमक्षरं चिद्वर्गच्च परस्परसंयुक्तं बिभर्ति ; न तु बध्यते । अनीशो जीवस्तु बध्यते कर्मफलभोक्तत्वाभिसन्धिलक्षणभावसत्त्वात् । परमात्मनस्तु (परमात्मा तु ?) 'न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा' इत्युक्तरीत्या तस्य कर्मफलस्पृहाभावेन ___ 1. ईदृश-विवेकं. १. अन्तरशब्दितभेदं. 3. साम्यमाप्य अमिन्नतया अदर्शन. ग्रहणाय स्वप्रतिष्ठेति विशेषणनिर्देशः । अमृताक्षरं हर इति वक्ष्यमाणजीवरूपाक्षरव्यावृत्तये वा विशेषणनिर्देशः । तेन ब्रह्मणः परमत्वं तदुपरिवस्त्वन्तरसद्भाववादनिरासपूर्वं स्थापितं भवति । तस्मिन्नित्यादेः उपर्यन्वयसंभवे तु तस्मिन् यत् त्रयं प्रकृतिपुरुषकालरूपम् , यच्च तदाधारभूतं स्वप्रतिष्ठाक्षरम् , (तदुभयं विदित्वा ) अत्र मिथोऽन्तरं विदित्वेति रीत्या वर्णनीयम् । तदपेक्षया, ब्रह्मनिष्टं पूर्वोक्तं त्रयम् , ब्रह्मरूपं स्वप्रतिष्ठाक्षरच्चेति सर्वमिदं उद्गीतमेतत् परमं ब्रह्म भवति = ब्रह्मशब्दार्थे विशेष्यविशेषणभावेन निविष्टं भवतीत्यर्थवर्णनं ज्यायः । कश्चित्तु, 'परमं ब्रह्मैतत् उद्गीतं प्रमाणेन । किं तत् प्रमाणम् ? उच्यते ! तस्मिन् ब्रह्माणि विषये त्रयं वेदत्रयम् , स्वप्रतिष्ठाक्षरं मूलान्तरनिरपेक्षप्रणवाक्षरश्वास्ति प्रमाणतये' ति व्याख्याति । स्वप्रतिष्ठाक्षरमिति कर्मकृतपरिणामरहितनित्यमुक्तजीवनित्यविभूत्यन्यतरपरं वा । तत्रापि 'क्षरश्चाक्षर एव च', 'यदक्षरे परमे प्रजाः ' इति तत्प्रसिद्धेः। तथाच कालादित्रयवत् तदक्षरमपि भवति तन्निष्टमित्यर्थः । सुप्रतिष्ठाक्षरमित्यपि पाठोऽस्ति ! संयुक्तमिति । क्षरमक्षरञ्च यदा संयुक्तं भवति, तदा एवम्भूतं देहि तेन भ्रियते । तत्र देहस्यापि आत्मनोऽपि तद्वार्थत्वमस्तीति भावः । अत्रात्मत्वोपयोगि धारकत्वमुक्तम् । ईश इत्युक्तं नियन्तृत्वमप्युपरि विवरिष्यते, 'क्षरात्मानावीशते देव एक इति । ननु ईशः स्वतन्त्रो न बध्यते, अक्षरं तु परतन्त्रत्वाद् बध्यते चेत्, ईशो निष्करूणः प्रसज्यते, नेत्साह भोक्त-