पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. १. क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः। तस्याभिध्यानात् योजनात् तत्त्वभावात् भूयश्चान्ते विश्वमायानिवृत्तिः ॥१० विषयीकरोति, तदा ब्रह्म भवति = मुक्तो भक्तीत्यर्थः । एवमेव व्यासार्यैः, "चमसवदविशेषात् " इत्यत्र व्याख्यातम् । ब्रह्ममिति छान्दसं रूपम् । (९)

संयुक्तमिति मन्त्रनिर्दिष्टक्षराक्षरशब्दार्थं विवृण्वन् परस्परवलक्षण्यज्ञानमात्रेण मुक्तौ, मनननिदिध्यासनवैयर्थ्यमिति शङ्काच्च शमयति क्षरं प्रधानमित्यादिना । 'प्रधान प्रकृतिः स्त्रिया ' मिति प्रधानशब्दिता प्रकृतिः क्षर मित्युच्यते । भोग्यमात्मनो भोगार्थ हरतीति हरो जीवः । सः अमृताक्षरम् । अमृतत्वात् = मरणधर्मशन्यत्वादक्षरमित्यर्थः । क्षरात्मानौ --- एकः । क्षराक्षरशब्दितचेतनाचेतनवर्गेशिता, 'अपहतपाप्मा दिव्यो देव एको नारायणः । इति निर्दिष्टो नारायण इत्यर्थः । तस्यामिध्यानादिति । अभिध्यानमारम्भणसंशीलनम् । योजनं योगः । तत्वभावः तत्त्वाविर्भावः । एतैः अन्ते शरीरावसाने भूयः समस्तप्रकृतिसंबन्ध- कारो मुक्तये स्यात् , न तु त्रयस्येति चेन्न - चेतनाचेतनविलक्षणत्वेन परमात्मोपासने तयोरपि ध्यानविषयीकारो भवतीति तात्पर्यात् | प्रसिद्धचोपासात्रैविध्यमपि । इन्द्रप्राणाधिकरणे च टीकायां 'भोक्ता भोग्य ' मिति वाक्यं गृहीत्वा त्रिविधोपासनं दर्शितम् । ब्रह्म भवतीति । त्रयं त्रिविधं ब्रह्म यदा विन्दते, एतत् तदा मुच्यते सर्वपाशैरिति पूर्वमन्त्रान्वयापेक्षयेदं युक्तम् । (९) उक्तमेव त्रयवेदनं विशदीक्रियते क्षरमिति मन्त्रेण | त्रयवेदनमित्यनेन ब्रह्मण इव प्रकृत्यादेरपि पार्थक्येन स्वातन्त्र्येण वेदनं मुक्ति हेतुरिति नोच्यते, किंतु प्रकृतिपुरुषेशितृत्वेन परमात्मवेदनमेव त्रयवेदनं नाम । तथा वेदनमपि न श्रवणादिमात्रम् , किंतु तत्त्वभावरूपं दर्शन- समानाकारपर्यवसन्नमित्युक्तं भवति । क्षरमक्षरच्चेति प्रागुक्तक्षराक्षरविवरणं क्रियते क्षरमिति । अमृताक्षरमिति | प्रधानमपि क्वचिदक्षरमिति व्यपदिश्यते । क्षरणं चेतनाचेतनसाधारणम् ; मरणं चेतन एवं व्यवह्रियमाणं लोके । तद् द्वयं वस्तुगत्या चेतनस्य नास्तीति अमृताक्षरत्वमस्य । अमृतवत् स्वयमेव भोग्म् अमृतभूतपरमात्मसंबन्धि च सदपीदमक्षरं हन्त क्षुद्रमन्यद् भोगाय हरतीति चानुतप्यते । अत्र हर इत्यस्य रुद्रपरतया देव एक इत्यत्र नान्वयः, व्यवहितत्वात् अमृताक्षरशब्दस्यकस्योद्देश्य विधेयोभयासमर्पकत्वाञ्चेति १३-२. तात्पर्यचन्द्रिकायामुक्तम् । अभिध्यानादिपदानामर्थः चमसाधिकरणटीकायामुक्त एव । आरम्भणसंशीलनमिति पाठेऽपि आलम्बनसंशीलनमित्येवार्थः । आरभ्यते (रलयोरभेदात् ) आलभ्यते स्पृश्यत इति आरम्भणमालम्बनम् । योगाद् व्युत्थितस्यापि अनवरतं चित्तालम्बनभूतध्येयवस्तुपरिशीलनं योगकाले अविच्छिन्नानुसंधाने उपयुज्यते । तत्त्वाविर्भावो नाम दर्शनसमानाकारं मानम् । तत्त्वे