पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ. १.] श्वेताश्वतरोपनिषत् ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः । तस्याभिध्यानात् तृतीयं देहमेदे विश्वैश्वर्यं केवल आप्तकामः ॥ ११ ॥ निवृत्तिरित्यर्थः । ततश्च त्रयं यदा विन्दते ब्रह्ममेतदिति मन्त्रोक्ता मुक्तिः ब्रह्मोपासनकालीनब्रह्मानुभवरूपेत्यर्थः । ( १०)

ज्ञानसाध्यमुक्तिकमं दर्शयति ज्ञात्वेति । दर्शनसमानाकारज्ञानेन विषयीकृत्य सर्वपाशशब्दितपापहानिर्भवति । " तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ " इति सूत्रे दर्शनसमानाकारज्ञानारम्भसमये पूर्वोत्तरपुण्यापुण्यकर्मणाम् , 'उपासनावसाने क्षमिध्ये ' इति भगवत्संकल्वरूपाश्लेषविनाशौ भवत इत्युक्त्तेः । क्षीणैः क्लेशसाधनशरीरेन्द्रियादिभिः सह जन्ममृत्युप्रापककर्मणाम् , 'क्षान्त मिति संकल्परूपा प्रकृष्टां हानिर्भवति । " सांपराये तर्तव्याभावात् - " इत्यत्र सकलपुण्यापुण्यकर्मणां पूर्वं दर्शनसमानाकारज्ञानारम्भसमये, क्षमिप्य इति भगवत्संकल्परूपाश्लेषविनाशवतां क्षान्तमिति संकल्परूपप्रकृष्टहान्यभ्युपगमात् । तस्याभिध्यानपरमफूलीभूतमपहतपाप्म. त्वादिलक्षणं विश्वातिशायि तृतीयमैश्वर्यं तु प्राकृतदेहभिन्नशुद्धसत्त्वमयदेहभेदे भवति। केवलः प्रकृतिसंबन्धविनिर्मुक्त एव देशविशेषविशिष्टं ब्रह्म प्राप्य आप्तकामो' भवति ; न तु प्रकृतिमण्डले इति भावः । (११)

1. आत्मकामः क. भावः आस्था तत्वभाव इत्यर्थेन भक्तिपापनत्वमपि गम्येत । अत्र पञ्चम्यन्तत्रयोक्तेषु पूर्वपूर्वस्योत्तरोत्तर हेतुत्वमस्ति । एवम्भूतज्ञानात् प्रथमं मायानिवृत्तिः, भूयश्च अन्ते शरीरावसाने अन्तिमप्रत्ययकाले तत एव दर्शनात्मकध्यानात् अन्या मायानिवृत्तिरिति । अयमर्थं उत्तरमन्त्रे स्पष्टं भाषिष्यते। ज्ञात्वेति ज्ञानं पूर्वोक्तः तत्त्वभावः । हानिः हानं पुरुषकिया। तत् सुकृतदुष्कृते धूनुते इतिवत् । तस्याः ज्ञानसमानकर्तृकत्वात् क्तृप्रत्यय उपपद्यते । देहभेदे देहविशेषे । 'अत्र ब्रह्म समश्नुत' इति श्रुत्या सोऽश्नुते सर्वान् कामानिहैवेति न मन्तव्यमित्युपविश्यते केवल आप्तकाम इति । केवलोदेशेन आप्तकामत्वविधायकं पृथग्वाक्यमिदम् । अत्र मन्त्रेऽयमर्थः स्वरसतः प्रतीयते-पूर्वोक्तात् दर्शनसमानाकारध्यानात् सर्वपापहानौ तत्साध्यानां क्लेशानां क्षीणत्वादननुभाव्यत्वात् तदर्थजननमरणरूपबन्धहीनो भवति पुरुषः । प्रहाणिरित्यत्र प्रशब्देन प्रलयकालिकजन्ममृत्युहानिविलक्षणं पुनर्जन्मादिप्रागभाषासमानकालिकत्वविशिष्टं जन्ममृत्युहानं ह्यप्यते । तदयं पाप्मजन्मजरामरणादिवर्जितत्वात् केवल एव।