पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. १. एतत् ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किश्चित् । भोक्ता भोग्यं प्रेरितारश्च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥ १२ ॥ एतत् ज्ञेयं --- किश्चित् । एवम्भूतं परं ब्रह्म आत्मन्यन्तर्यामितया संस्थितं ज्ञेयम् । ज्ञातवतश्च ज्ञातव्यान्तरं नावशिष्यते । भोक्ता - ब्रह्म मेतत् । 'भोक्तृशरीरकत्वं भोग्यशरीरकत्वमपहतपाप्मत्वादिविशिष्टसत्यज्ञानादि- स्वरूपत्वमिति विधात्रयविशिष्टं ब्रह्म ज्ञातव्यम् । इति वेदार्थसंग्रहे वर्णितम् । केचित्तु, 'भोक्ता भोग्यं प्रेरितेत्येतत् त्रिविध प्रोक्तमेतत् सर्वं मत्वा ब्रह्म भवति - अथाप्यस्य विश्वात्मकब्रह्मसायुज्यरूपं भोगसाम्यमप्राकृत देहप्राप्तया परमपदे भगवत्पदपद्मसंश्रयसमनन्तरमेव । देहवियोगकाल एवं प्राकृतभोगहेतुसर्वकर्मक्षयेऽपि स्यात् धीसंकोचमात्रस्थितिकृदनुगतः सूक्ष्मसंस्कारयोगः । तद्भङ्गरूपे तस्मिन् सायुज्ये सति पुरुषोऽयं सत्यकामः सत्यसंकल्पश्चाप्तकामो भवति । एवञ्चेमं तृतीयं विश्वेश्वर्यरूपं विशेषमविदुषामयथाभूतवेदान्तिनां केवले केवलभावे निःश्रेयसविश्रमणं न श्रेय इति । तथाच ब्रह्मवेदनपर्वक्रमः पूर्वमन्त्रोक्तः । तत्कलपर्वक्रम इह विशदमुच्यते, यद् भूयश्चान्त इति प्राक् संगृहीतमिति । सर्वमिदं भाष्यसंमतमेव । परंतु पूर्वार्धे पापहानावुक्तायां तत्कार्यहानेरर्थसिद्धत्वात् , 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग' इति रीत्या कार्थपरम्पराकथनस्य प्रकृते व्यर्थत्वात् पापहानस्य ध्यानप्रारम्भ - अवसानदशाभेदेन स्थितं द्वैविध्य युक्तमिह वक्तुमिति तथा भाषितम् । (११) विश्वैश्वर्यमित्युक्त्या स्यात् जगद्वयापारादिरूपमैश्वर्थमप्यस्य । तथाच सर्वप्रकारं परमं साम्यमिति वा परमात्मैक्यं वा न मन्तव्यमित्युपदिश्यते एतदित्यादिना। नित्यमेवात्मसंस्थमिति । जीवात्मनो देवात्मनश्च शरीरात्मभावरूपः संबन्धोऽनपायी | अतोऽयं तदाऽपि तदधीन एवेति नास्य तदैक्यं तदत्यन्तसर्वप्रकारसाम्यं वेति भावः । एवञ्च विश्वैश्वयं नाम भाष्योक्तरीत्या विश्वातिशायि प्राकृतप्रपञ्चातिशयितमैश्वर्यम् ; यद्वा विश्वं समस्तम् जीवेन यावत् संपादयितुं शक्यम् , तावदैश्चर्यमित्यस्तु । नन्वियं सगुणावस्था । निर्गुणावस्थायां तु स्यादैक्यमित्यपि नेति ज्ञाप्यते नातः परं वेदितव्यं हि किञ्चिदिति । एवञ्च अचेतनशरीरकत्ववत् चेतनशरीरकत्वमपि ब्रह्मणः सार्वकालिकमिति प्रदर्शनपूर्वं निगम्यते भोक्तेत्यादिना । वेदार्थसंग्रह इति । तत्रेयं सूक्तिः, "एवम्भूतभोक्तृभोग्ययोरन्तर्यामिरूपेणावस्थानम् , स्वरूपेण चापरिमितगुणौघाश्रयत्वेनावस्थानमिति परस्य ब्रह्मणः त्रिविधावस्थानं ज्ञातव्यमित्यर्थः" इति। केचित्त्विति । ननु मत्वेत्यस्य मन्तव्यं ज्ञातव्यमित्यर्थाश्रयणायोगात् , ब्रह्ममेतत् ' इति पूर्वत्र, 'ब्रह्म भवती ' ति टीकायां व्याख्यातत्वाच्च तथैवेहापि ब्रह्ममेतदित्यस्य व्याख्यानसभवात् वेदार्थसंग्रहस्यापि कैचिदुदित एवार्थे तात्पर्य किं न स्यात् । अतः पक्षान्तरतया निर्देशः कुत इति चेत्-उच्यते-