पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ. १.] श्वेताश्वतरोपनिषत् वह्नेर्यथा योनिगतस्य मूर्तिरंन दृश्यते नैव च लिङ्गनाशः । मुक्तो भवतीत्यर्थः । इत्युपसंहारः । इति वदन्ति । प्रेरितेति वक्तव्ये प्रेरितारमिति छान्दसं रूपम् । (१२) ननु, ‘एतत् ज्ञेयं नित्यमेवात्मसंस्थ ' मिति अनुपपन्नम् । आत्मसंस्थस्य परस्यानुपलम्भात् इत्याशङ्क्य, यथा अरणिगतस्य वह्नेः प्रत्यक्षेणानुपलम्भेऽपि मथने धूमोपलम्भात् न तत्सत्ता अपह्नवार्हा -- एवं प्रत्यक्षाद्यग्राह्यस्याप्यात्मसंस्थस्य परमात्मनः प्रणवनिर्मथने उपलभ्यमानत्वात् न तत्सता अपह्नवार्हेत्याह वह्नेरिति । योनिगतस्य कारणभूतारणिगतस्य मूर्तिः स्वरूपं प्रत्यक्षेण न दृश्यते । लिङ्गं तु दृश्यते । पश्चात् ___1. न गृह्यते । लिङ्गं तु पश्चात् , वेदार्थसंग्रहव्याख्यायां तात्पर्यदीपिकायामत्र संदर्भे, 'सद्वारकमाकारद्वयमद्वारक एक आकारश्चेति ब्रह्म त्रिविधम्-तत्तदन्तर्यामितयावस्थानं स्वरूपेणावस्थानं चेति त्रिविधम्' इत्येतावन्मात्रोक्तावपि पूर्वत्र, “भोक्तृभोग्यनियन्तृृन् ज्ञात्वा विविधमेतद् ब्रह्म सर्वं मयोक्तम्" इति तात्पर्यस्य वर्णितत्वात् तदपेक्षया कश्चिदुक्तं पक्षान्तरमेवेति । प्रेरितेति वक्तव्ये इति । शङ्करभाष्यगतिरप्येवमेव । प्रथमयोजनायां तु भोक्त्यस्य भोक्तारमित्यर्थः। इतः परं बहुग्रन्थेनोपदेशस्य करिष्यमाणत्वेऽपि सर्वं तत् उक्तार्थविवरणमात्रमिति सर्वं प्रोक्तमित्युक्तिः संगच्छते। अत एवैतदध्यायान्ते द्विरुक्तिर्दृश्यते। द्वितीययोजनायां — मत्वा', 'ब्रह्ममेतत् इत्यनयोः, ' पृथगात्मानं प्रेरितारश्च मत्वा', 'त्रयं यदा विन्दते ब्रह्ममेतत् इति पूर्वमन्त्रसमानार्थत्वलामः । इन्द्रप्राणाधिकरणटीकायां तु मत्वेत्यस्योपासनपरत्वमभिमतम् । अत्र प्रेरितारश्च मत्वा अतः परं पुरुषेण वेदनीयं न किञ्चिदस्तीति पूर्वाधेन सह योजनाऽपि सुवचा । तदाऽपि भोक्तेत्यस्य भोक्तारमित्यर्थ आवश्यक एव । एवमपि स्यात् -- भोक्तेति, वाक्ये कर्तृ निर्देशः । चकारेण भोक्तारं स्वमिति समुच्चीयते । तथाच भोग्यम् , प्रेरितारम् , तथा स्वश्च सर्व प्रोक्तं विविधं ब्रह्म मत्वा भोक्ता एतद् ब्रह्म भवतीति । यद्वा भोक्तेत्यस्य भोक्तारमित्येवार्थः । सर्वं प्रोक्तं त्रिविधमित्यस्य चिदचिदीश्वरात्मकं तत्त्वं तद्वेदनपर्वरूपोपायः समन्तरोक्ततत्फलपर्वं च सर्वं त्रिविध मया प्रोक्तमित्यर्थः । ब्रह्ममेतत् । सर्वमिदं ब्रह्मैव । एतत्सर्वज्ञाने सत्येव ब्रह्मज्ञानं संपन्नं मन्तव्यमित्यपि सुवचम् । इतः परं बहुविषयोपदेशेऽपि तत्त्वोपायफलेष्वेकैकस्यापि त्रिविधतया प्रोकत्वमिहोच्यत इति न दोष इति । ध्याने मन्त्रः प्रदर्श्यते वह्नेरिति । लिङ्गनाशः लिङ्गानुपलम्मः | णश अदर्शने इति हि