पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. १. स भूय एवेन्धनयोनिगृह्यः तद्वोमयं वै प्रणवेन देहे ॥ १३ ॥

आत्मानमरणि' कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासात् देवं पश्येनिगूढवत् ॥ १४ ॥

तिलेषु तैले दधनीव सर्पिः आपः स्रोतस्वरणीषु चाग्निः । एवमात्माऽऽत्मनि गृह्यतेऽसौ सत्येनैन तपसा योऽनुपश्यति ॥१५॥ 1. स्वदेहमरगि. शां.

मथने सतीन्धनयोनितयेन्धनप्रभक्तया गृह्यते । तद्वत् प्रणवेन परमात्मशरीरभूते जीवे शोध्यमाने पूर्वमप्रतीतस्यान्तर्यामिणः सूक्ष्मवस्त्राञ्चलान्तर्गतमाणिक्यवत् प्रत्यग्वस्त्वन्तर्गत- स्योपलब्धिर्भवतीत्यर्थः । तद्वोभयमित्यत्न वाशब्दः इवार्थः । (१३) प्रणवेन प्रकाशप्रकारमेव दर्शयति आत्मानमिति । स्वात्मनि प्रणवेन ध्यायमाने तदन्तर्गत आत्मा निगूढवत् स्थितः प्रकाशत इत्यर्थः । (१४) ___ तदेव प्रपञ्चयति तिलेषु - पश्यति । यथा तिलादिस्थिततैलादिकं यन्त्रपीडनाद्यपायेन गृह्यते, एवं सत्यतपोलक्षणोपायेन परमारमा गृह्यत इत्यर्थः। (१५) धातुः । स भूय एवेति । भूयः पश्चात् । स एव साक्षात् वह्निरेवेत्यर्थः । उभयम् देवात्मा तश्चिह्नश्चेति द्वयम् । तदभिव्यक्तिप्राचीनानि च चिह्नानि अनन्तराध्याये नीहारधूमेति मन्त्रेण गणयिष्यन्ते । पाञ्चभौतिकस्य देहस्य प्रणवार्थत्वाभावेन उत्तरारणिस्थानापन्नप्रणवमभ्यमानत्वायोगात देहशब्दः परमात्मशरीरभूतजीवात्मपरः । उत्तरारणिर्नाम उपरितनमरणिभूतं मन्थनकाष्ठम् । निगूढवदित्यस्य निगूढाग्निवत् इत्यर्थः अरणिनिदर्शनबलात् , 'पश्येद ब्रह्माग्निगूढवत् ' इति ध्यानबिन्दूपनिषद्दृष्टप्रकृतजातीयमन्त्रचतुर्थपादतश्च ज्ञायते । अन्यानि व निगूढानि अनन्तरमन्त्रेण दर्श्यन्ते । प्रणवेन मथनञ्च विहितप्रतिषिद्धाचरणानाचरणपूर्वकमित्युच्यते सत्येनेत्यादिना । सत्य यमान्तर्भूतम् , तपो नियमान्तर्गतम् । एवं सत्यं सामान्यधर्मः, तपो विशेषधर्मः।