पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ.२. श्वेताश्वतरोपनिषत् सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् । आत्मविद्यातपोमूलं तत् ब्रह्मोपनिषत्परम् तद्ब्रह्मोपनिषत्परम् ।। १६ ।। इति श्वेताश्वतरोपनिषदि प्रथमोऽध्यायः ।। ॥अथ द्वितीयोऽध्यायः ।। युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः । सर्वव्यापिनमिति । क्षीरार्पितसर्पिस्समतया सर्वव्याप्तमात्मानं प्रत्यगात्मविद्यया तपसा च ज्ञेयमुपनिषदां परं प्रतिपाद्यं तत् परं ब्रह्म विद्यादित्यर्थः । द्विर्वचनमादरार्थमध्यायसमाप्तिद्योतनार्थश्च । (१६ ) इति प्रथमाध्यायप्रकाशिका ।। आत्मसंस्थपरमात्मप्रतीत्यौपयिकेन्द्रियनिग्रहरूपतपस्सिद्धयनुगुणं भगवत्प्रार्थनामन्त्रमाह युञ्जान इति । धियः सविता प्रेरकः परमात्मा पृथिव्याः अधि सर्वव्यापिनम् अन्तर्बहिश्च व्याप्तम् अणावात्मनि तद्धर्मभृतज्ञानविकासे च कार्त्स्न्येन व्याप्तम् । गुरुमुखगृहीतस्वाध्यायादिकमप्यावश्यकमिति सूच्यते उपनिषत्परमिति। अत्र पूर्व- मन्त्रे अनुपश्यतीत्यनेनान्वयः सुवचः । पूर्वार्धमात्रस्य वा तथाऽन्वयं कृत्वा उत्तरार्ध प्रथमान्तपदात्मकं पृथग्वाक्यमित्यपि सुवचम् – अथापि मन्त्रभेदाद वाक्यभेदो युक्त इति विद्यादिति पदाध्याहारः। द्विर्वचनमिति । अत्र न प्रत्यध्यायं द्विर्वचनं श्रूयते । अध्यायसमातिद्योतनार्थत्वे तदावश्यकमिति चेत् - आदरार्थमित्यस्तु । आदरश्च प्रथमाध्यायोक्तस्यैवार्थस्य सर्वस्य विवरणमनन्तराध्ययैः क्रियत इति अस्य सर्वसमासरूपत्वादिति भाव्यम् । ध्याननिर्मथनाभ्यासं प्रागुस्तमधिकृत्य वक्तुं द्वितीयाध्यायस्यारम्भः । अत्र धीपदसवितृपदादेरभ्यसनात् , 'तदक्षरे तत् सवितुर्वरेण्य' मिति वक्ष्यमाणरीत्या गायत्रीमन्त्रस्यानुसंधापनं कृतं भवति । तेन संध्योपासनादेर्योगोपयोगितया आवश्यकत्वं सूच्यते, " वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुराराध्यते पन्था नान्यस्ततोषकारकः" इति च श्रीविष्णुपुराणम् ।