पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/११३

एतत् पृष्ठम् परिष्कृतम् अस्ति

१८ श्रीरङ्गरामानुजमुनिविरचितमध्ययुक्ता [अ. २. अग्निं ज्योतिर्निचाय्य पृथिव्या अध्याभवत् ॥१॥ युक्तेन मनसा वयं देवस्य सवितुः सवे । सुवर्गेयाय शक्तया ॥२॥ युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम् । 1. अग्नेज्यों ; अग्रिज्यो, 2. आभरत् . ऊर्ध्वमग्निं ज्योतिः अग्निरूपं ज्योतिः निचाय्य संपूज्य अमिहोत्रादिकर्म (दिकं) कृत्वा मनः तत्वाय साक्षात्काराय पृथिवी'निष्ठाग्निज्योतिस्सदृशस्वात्मनिष्ठपरमात्म- तत्त्वसाक्षात्काराय युञ्जानो नियुञ्जानः आभवत् भवत्वित्यर्थः । तत्त्वसाक्षात्काराय परमात्मनि मनो नियुञ्जानो भवत्वित्यर्थः] (१) __युक्तेनेति । सवितुः प्रेरकस्य परमात्मनः सवे अनुज्ञायां सत्याम् -- अनुज्ञयेति यावत् – युक्तेन मनसा आत्मप्रवणेन चेतसा युक्ता क्यं सुवर्गेयाय स्वर्गशब्दितभगवल्लोकसाधनाय परमात्मनिदिध्यासनाख्यकर्मणे शक्त्या युक्ता भवेमेत्यर्थः । (२) ‘परमात्मा प्रणिपातमात्रेण कथमनुज्ञां प्रयच्छेत् । इत्याशङ्कय भगवदन्तरङ्ग- भूतविष्वक्सेनाद्याचार्यप्रणामपूर्वकं भगवत्प्राप्तौ यतमानानामनुज्ञां प्रयच्छतीत्याह युक्त्वायेति । सुवः स्वर्गं लोकं भगवल्लोकं यतः गतान् देवान् पूर्वाचार्यान् मनसा युक्त्वाय -- छन्दसि, 'क्त्वो यक् ' इति यक् । मनसा युक्त्वाय = प्रणम्येति यावत् --- दिवं द्योतमानं निरतिशयबृहत्त्वयुक्तं परमात्मरूपं ज्योतिः धिया 1. पृथिव्यादिनिष्टाग्निज्योतिस्सदृशं ; ज्योतिस्सादृश्य. वा. संपूज्येति । अस्य परमात्मकर्तृकत्वबाधात् साक्षात्कारायेति जीवात्मककर्तृकक्रियायामन्वयः कार्यः । एवञ्च मूले निचाय्येति तत्त्वायेत्यत्रान्वेतीति वक्तव्यम् । न च तत्त्वपदं क्रियावाचि । तत् कथं क्रियानन्वये ल्यप् इति चेन्न- साक्षात्कारायेति क्रियार्थस्योक्तत्वात् । अथवा निचाय्य साक्षात्कार्याय तत्त्वायेत्यध्याहारेण योजना । यद्वा निचाय्येत्यस्य संकल्प्य, प्रदर्श्येत्येवमर्थोऽस्तु । तच्च परमात्मकर्तृकमेवेति । पृथिवीनिष्टाग्निज्योतिरित्यग्निहोत्रोपस्थापनेन, 'अरण्यादिनिष्ठाग्नितुल्यतया प्राग्दर्शितस्वात्मनिष्ठपरमात्मज्योतिर्ग्रहणोपयोगित्वमस्याग्निहोत्रस्य युक्त' मिति सूच्यत इत्याशयेन सदृशेत्यन्तविशेषद्यम् । क्त्वो यक् इति । यक आगमत्वात् क्त्वाप्रत्ययान्ते तन्निवेशात् युक्त्वायेति रूपम् । अस्य