पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति

अं. २.] श्वेताश्वतरोपनिषत् बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥ ३॥ युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे क्युनाविदेक इन्महीदेवस्य सवितुः परिष्टुतिः ॥ ४ ॥ उपासनरूपज्ञानेन करिष्यतः विषयीकरिष्यतः --- ध्यातुं प्रवृत्तानिति यावत् - तान् मुमुक्षून् सविता प्रेरकः परमात्मा प्रसुवाति अनुजानातीत्यर्थः । [इति वयं मन्यामहे इति शेषः ) । (३)

परमात्मनि मनोयोगः तत्समाराधनं' कर्म च, केषाञ्चिदेव भवतीत्याह युञ्जत इति । 'विप्रो विपत्वं गच्छते तत्त्वदर्शी' इत्युक्तरीत्या विप्राः तत्त्वदर्शिनः परमात्मनि मनः नियुञ्जते योजयन्ति । धियः ध्यानानि च योजयन्ति । विप्रस्य -- प्रा पूरणे – पूर्णस्य, बृहतो गुणैः बृहत्त्वाश्रयस्य विपश्चितः सर्वज्ञस्य महीदेवस्य महा = भूम्या समेतस्य देवस्य श्राभूमिसमेतस्य सवितुः प्रेरकस्य वयुनावित् – वयुनं ज्ञानम् । वयुनाविदिति छन्दसो दीर्घः - तस्य सार्वज्ञ्यादिमहिमविदित्यर्थः । तदाश्रयः एक इत् एक एव परिष्टुतिः - परिष्टुतीरित्यर्थः । छान्दसं ह्रस्वत्वम् । (परिचर्येति ? ) परिचर्या इति यावत् ----- होता ऋत्विग्भिः --- , मन्त्रेणेति वाऽर्थः - विदधे कृतवानित्यर्थः ।

  • ब्रह्मस्वरूपविदेव तत्परिचर्याकारी, तेन कृतमेव भगवत्परिचरणं भगवत्प्रीणनं

भवतीत्यर्थः । (२) 1. तत्साधनं. 2.युगपदेव. ३. तदाश्रयब्रह्ममहिमवित्त्वमेव भगवत्परिचरणमिति अधिकपाठ इह । 4. प्रखरूपवित्परिचर्या एव तत्परिचर्या । तया कृतमेव पा. करिष्यत इति द्वितीयाबहुवचनेनान्वयः । योगिनामपि सर्वेषां भगवद्गतेनान्तरात्मना तत्परिचयैर्कपरस्य दौर्लभ्यं प्रदर्श्यते युञ्जत इति । देवशन्दस्य पतिपर्यायस्वाभावात् मह्या समेतो देवः मही देव इति मध्यमपदलोपी समासः । अत्र महीति पृथक्पदं मत्वा, परिष्टुतिरित्यत्रापि अन्दसं दीर्घमप्रकलप्प्य, मही भूमिः तत्स्थः सर्वोऽपि देवस्य परिष्टुतिः विभूतिः स्तवकरणार्हेति वा, देवस्य परिष्टुतिः स्तुतिः मही महतीति वाऽर्थो भाव्येत । परंतु तदा वाक्यभेदः सोढव्यः । विदध इत्यत्र किञ्चित् कर्माप्यध्याहार्यम् । होत्राः होमादिकिया इति कर्मेति केचित् ।