पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/११६

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ. २.] श्वेताश्वतरोपनिषत् २१ त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संनिवेश्य । ब्रह्मोडुपेन प्रतरेत विद्वान् स्रोतांसि सर्वाणि भयावहानि ।। ८ ॥ प्राणान् प्रपीडयेह स युक्तचेष्टः क्षीणे प्राणे नासिकयोच्छ्सीत । दुष्टाश्वयुक्त्तमिव वाहमेनं विद्वान् मनो धारयेताप्रमत्तः ।। ९ ।। समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश(श्र)यादिभिः । मनोऽनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणेन योजयेत् ॥१०॥ योगदशेतिकर्तव्यतामाह त्रिरुन्नतमिति । उरःकण्ठशिरःप्रदेशेषून्नतम् इतरत्न समं शरीरं स्थापयित्वा सर्वाणीन्द्रियाणि हृदयकुहरे संनिवेश्य ब्रह्मोडुपेन 'प्रणवलक्षण (ब्रह्मस्वरूप]प्लवेन - ब्रह्मध्यानेनेत्यर्थः - सर्वाणि भयावहानि नानाविधानि जन्मस्रोतांसि तरेदित्यर्थः । (८)

प्राणायामप्रकारमाह प्राणानिति । ‘युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । इत्युक्तरीत्या मितायासः प्राणवायुं निरुध्य निरुद्वेषु अत्यन्तपीडापरिहाराय नासि- क्या रेचनं कुर्यात् । ततश्चावहितस्सन् , दुष्टाश्वयुक्तं रथं यथा सारथिः स्ववशं करोति, तथा मनोनिरोधज्ञो मनः स्वयं कुर्यादित्यर्थः । (९)

योगानुष्ठानयोग्य देश विस्तरेणाह सम इति । निम्नोन्नतत्वादिरहिते परिशुद्धे क्षुद्रपाषाणवह्निसिकता रहिते वाद्य ध्वनिजलाशयाद्यत्यन्तसामीप्यरहिते मनोनुकूले चक्षुःपीडाहेतुभूतौण्यादि रहिते गुहादिलशनिवातदेशाश्रयणेन योगमनुतिष्ठेदित्यर्थः । सूत्रितश्चैतत् , “ यत्रैकाग्रता तत्राविशेषात् " । ___तत्र हि, आसीनस्तिष्ठन् गच्छन् वोपासीत अविशेषादिति पूर्वपक्षे 'उच्यते - " आसीनः संभवात् ।। आसीन एव उपासीत । तस्यैव उपासनस्य संभवात् । ____ 1. प्राणादिविलक्षण, , वायु. 3. भूतोल्कादि. 4. पूर्वपक्षिते. स्रोतांसि सर्वाणि भयावहानीति योगविच्छेदकानां पापानामिव, आध्यात्मिकायनन्तोपप्लवानामपि ग्रहणम् । एतावत्पर्यन्तेन अष्टाङ्गयोगे यमनियमौ यथायथं दर्शितापित्यापि ध्येयम् । यमो निषिद्धवर्जनम् ; नियमो विहितानुष्ठानमिति संग्रहः । अथ प्राणायामप्रत्याहारौ प्रोच्येते प्राणानिति मन्त्रेण | वाहो रथः । अथ ध्यानधारणासमाधिरूपो योगी देशविशेषोपदेशपूर्वमुच्यतं समन: अग्नियत्रेति मन्त्र निधावनुक्त्वा इह विस्तरेण देशव्युत्पादनं प्रत्याहारापोभा देशविशेषान्वेषणमत्यावश्यकमिति ज्ञप्तये । शब्दजलाशयादिभिरित्यजनुकूले इसत्रा- न्ययायोगात पूर्वस्मात् पदात् विवर्जिते इत्यस्य पूर्वभागविवर्जितस्यानुष पीत इत्यत्र पर्युदासनमोऽप्यसमासः, विम्लानो न विमर्दन' (न्या. कु.) ६ TH


-- - - 09671