पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता नीहारधूमार्कानिलानलानां खद्योतविद्युत्स्फटिकशशिनाम् । एतानि रूपाणि पुरस्सराणि ब्रह्मण्यभिव्यक्तिकराणि योगे ।। ११ ॥ पृथ्व्यप्तेजोनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते । न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् ॥१२॥ लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादं स्वरसौष्ठवञ्च । .. तिष्ठतो गच्छतश्च यत्नसापेक्षत्वात्, शयानस्य निद्राप्रसक्तेश्च, उपासनस्य ध्यानरूपत्वाच्च एकाग्रचित्ततावश्यम्भावात् , चित्तैकाग्र्यस्य आसनसापेक्षत्वाच्चासीन एव कुर्यात् । "अचलत्वञ्चापेक्ष्य " । ध्यायतीव पृथिवी ध्यायतीवान्तरिक्ष ' मित्यादिषु निश्चत्वधर्मेण 'ध्यातृसाम्यव्यपदेशदर्शनात् ध्यातृनिश्चलत्वस्यापेक्षितत्वात् निश्चलत्वस्य च आसिकामन्तरेणासंभनात् आसीन एव कुर्यात् । “ स्मरन्ति च", 'उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये । इति । “यत्रैकाग्रता तत्राविशेषात् " । ' समे शुचौ शर्करावह्निवालुकाविवर्जिते ' इत्यविशेषेण एकाग्रतानुकूलदेशविशेषस्यैवाङ्गत्वकीर्तनात् तेनैव [च) न्यायेन एकाग्रतानुकूल – 'आसनस्यापेक्षितत्वमस्तीति अव- सीयत इति स्थितम् । प्रकृतमनुसरामः । (१०) योगमभ्यस्यतो ब्रह्माभिव्यक्तिप्राचीनानि तच्चिह्नान्याह नीहारेति । प्रथमतो नीहारवत् स्फुरति, ततो धूमार्कानि (न) लाद्याकारतया स्फुरति । एवम्भूतानि स्फुरणानि पूर्वप्रवृत्तान्यागामित्रब्रह्माभिव्यक्तिचिह्नानीत्यर्थः । (११)

योगाभ्यासस्य कायसिद्धिफलकत्वमाह पृथ्वीति । गुणो गुणनमभ्यासः । योगाभ्यासे प्रवृत्ते सति योगमहिम्ना सत्त्वाचुरभूतारब्धे पाञ्चभौतिके शरीरे समुत्थिते तादृशसर्वरोगादिदाह समर्थत्वेनाग्निरूपेण योगेनारब्धशरीरयुक्तस्य पुंसो रोगादिर्न सं]भवतीत्यर्थः । (१२)

लघुत्वमिति स्पष्टोऽर्थः । (१३) 1. धातु. .नुकूलसाधनस्य पा० नुकूलस्यासनस्य ? 3. कार्यसिद्धिफलत्व, 4. समुपस्थिते. 5. समर्थेन. नीहारादिस्फूर्तिक्रमे उत्तरोत्तरं प्रसन्नताप्रकाशमानतयोरतिशयस्थितिर्भाव्या । साविभेदेन पार्थिवादिप्रकारभेदेन च विचित्राणामाहाराणां सेवनेन प्राणायामयोगाभ्यासासकाइपि कायस्य विचित्ररूपः परिणामः संपद्यते । इदं फलश्च, योगसिद्धिचिह्नश्च भवतीत्युच्यते पृथ्वीमा । पञ्चात्मके देहे पृथिव्यादेरेकैकस्यापि योगाधीनो गुणातिशयो भव- तीति ज्ञापनाय पृथ्वीनां विशिष्य निर्देशः ।

  • . स स बक' मित्युक्तरीत्या सत्त्वातिशयो लघुत्वमित्यादिना प्रदर्श्यते । उक्तेषु