पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/११८

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ. २.] श्वेताश्वतरोपनिषत् गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्ति प्रथमा वदन्ति ॥ १३ ॥ यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधान्त(क्त!)म् । तद्वात्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः ।। १४ ।। योगमभ्यस्यतो ब्रह्मोपलब्धिप्रकारं तत्फलश्चाह यथैवेति । मृदाऽयसा वा उपलिप्तः = निर्मितः प्रतिमाविशेषः सुधाविशेषान्त (विशेषाख्य (१) रञ्जकद्रव्यलिप्तस्सन् तेजोमय तया दीप्यते । तद्वत सुधाविशेषलिप्ततेजोमय प्रतिमासमं दर्शनसमानाकारध्यानेनोपलभ्य कश्चित् पुरुषधौरेयो निवृत्तसंसारगन्धः सिद्धार्थो भवती- त्यर्थः । तद्वेत्यत्र वाशब्द इवार्थः । तद्वत् सतत्त्वं प्रसमीक्ष्येति पाठेऽप्ययमेवार्थः । केचित्तु सुधान्तमिति मत्वा सुधौतमित्यर्थे सुधान्तमिति शब्द इत्यपि वदन्ति । (१४)

1. तेजोरूप. 2. तेजोविशेष । 3. सुधातरित्यर्थे. लघुत्वादिषु वातपित्तश्लेष्माद्यात्मनि शरीरे कतमस्य भूतस्य गुण प्रकर्षात् कतमद् भवतीत्यपि विमृश्यावधार्यम् । __एवं सिद्धिमता योगविच्छिन्नमभ्यस्यता प्रथमतः शुद्धं स्वात्मतत्त्व समीक्ष्यत इतीदं सदृशन्तमुच्यते यथैवेति । सुधान्तमित्यस्य सुधा अन्ते रञ्जकतया यस्य तदिति व्युत्पत्तिः । अत्रायं भाष्यप्रतीतोऽर्थः - मृदादिनिर्मितं सुधया मसृजितं बिम्बं यथा तेजोमयं प्रकाशमानमस्तीति । सुधान्तमितिमत्वे । । अत्र भाष्यसंमतः पाठः क इति निमृश्यम् । इत्यपि वदन्तीति । शाङ्करभाष्यत्वेन प्रसिद्ध एवमुक्तम् । तत्रोक्तो वाक्यार्थस्तावत् ---बिम्ब मृदा मलिनितं पश्चात् सुधौतं = क्षालितं चेत् तेजोमय भ्राजेत, तथा परमात्मा समीक्ष्यते इति । बिम्बञ्च लोहादिकृतं माह्यम् । तेजोमयमिति वा तेजससुवर्णादिमयार्थकमिति । बिम्ब नाम आदर्श इत्यपि कश्चित् । नन्वत्रोत्तरमन्त्रे ब्रह्मतत्त्वातिरिक्तस्य आत्मतत्त्वस्य निर्देष्यमाणत्वात् आत्मतत्त्वं समीक्ष्य इति तदीक्षणमेव वक्तमुचितम् ; न ब्रह्मतत्त्वेक्षणम् । एवञ्च जीवसाक्षात्कारानन्तरत्वात् परसाक्षात्कारस्य स वकव्य इहोतो भवति । तदिह सुवर्णादिना विम्बनिर्माणकालस्थिति- मनुसृत्य दृष्टान्तः प्रदर्श्यते । बिम्बनिर्माणार्थ प्रथमतः तत्तुल्याकृति निर्मायं मृदा यथार्ह तामुपलिप्य अग्निना प्रतप्य मृदन्तर्गतं बिम्बाकृतिद्रव्यं द्रवीकृत्यापसार्य तत्स्थाने द्रवीकृतं सुवर्णादि निषिच्य बिम्बे कृते तस्यामवस्थायामन्तर्हितबिम्बकं मार्तिकद्रव्यं यथा स्यात् , तयेदमन्तर्निगूढपरमात्मकमात्मतत्त्वमस्ति ; तत् समीक्षत इत्यर्थं इति चेत् --- सत्यम् । आत्मतत्वमिति जीव एवं गृह्यते । परंतु तथार्थवर्णन मृद एव जीवात्मदृष्टान्तत्वात् बिम्बस्य परमात्म- इयतत्वात्, यथा बिम्ब भाजते, तथा आत्मतत्त्वमिति कथनं न युज्यते । आत्मतत्त्वमित्यस्य