पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता अ. २. यदात्मतत्त्वेन तु ब्रह्मतत्वं दीपोपमेनेह युक्तः प्रपश्येत् । अजं ध्रुवं सर्वतत्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १५ ॥ एष हि देवः प्रदिशोऽनु सर्वाः पूर्वो हि जातः स उ गर्भ अन्तः । स एव जातः स जनिष्यमाणः प्रत्यङ् जनास्तिष्ठति विश्वतोमुखः ॥१६॥ यदाऽऽत्मेति । यदा योगयुक्तः परमात्मप्रतीत्युपायभूतेन प्रणवप्रतिपादितपरमात्मशेषभावेन प्रत्यगात्मना 'साधनेन तत्स्थं परमनादिमनन्तं हेयप्रतिभटं अस्त्रभूषाध्या- योक्तरीत्या सर्वतत्त्वात्मकास्त्रभूषणोपेतं परं ब्रह्म सूक्ष्मवस्त्रान्तरितमाणिक्यवत् [यदा] पश्येत् , तदा सर्व [बन्धक कर्महानिर्भवतीत्यर्थः । (१५)

तस्य सर्वात्मकत्वं प्रपञ्चयति एष हीति । हे जना इति परस्परं मुनीनां संबोधनम् । 'दिव्यो देव एको नारायण ' इति देवत्वेन प्रसिद्धः परमात्मैव सर्वाः प्रदिशः प्रकृष्टदिम्वर्तिपदार्थविशेषा इत्यर्थः । नुशब्दश्चार्थे । पूर्व हिरण्यगर्भ- रूपेणोत्पन्नोऽप्ययमेव । विश्वतोमुखः सर्वविधो गर्भस्थजन्तुः [जातः१] जनिष्यमाणश्च स एवेत्यर्थः । ननु भिन्नभिन्नजीवानां कथमेकात्मकत्वमित्याशङ्कयाह प्रत्यङिति । 1. संबन्धेन. जीवात्मसंबन्धि तत्त्वं परमात्मेत्यर्थवर्णने वैरूप्यम् । अतो भाष्योक्त एवार्थः । सुधान्तमिति पदप्रसिद्धार्थनिर्वाहाय भाष्ये शाङ्करार्थत्यागः । सुद्यौतमित्यर्थसंभवे तु सोऽप्यर्थो नोपेक्ष्यः । कर्मवेष्टित जीवतत्त्वम् , मृदाद्युपलिप्तं विम्बं शोधितं यथा तेजोमयम् , तथा दीप्तं स्यात् ध्यानकाले इत्युक्तेः समञ्जसत्वात् । सुधातमित्यपि पठन्ति । वीतशोक इति | जीवात्मदर्शनं पूर्वोक्तनानामिव्यक्तितुल्यं न भवति । अपितु उपायभूतविशिष्टदर्शनान्तर्भावार्हमिति भावः। एवं वीतशोकस्यापि सर्वपाशमोक्षस्तु देवदर्शनादेवेति स्फटमुत्तरत्र । एवं जीवात्मतत्त्वसाक्षात्कार उक्तः । अथ ब्रह्मसाक्षात्कार उच्यते यदेति । तत्स्थं परमित्युरूपा मूले तत्त्वमित्येतत्स्थाने तत्स्थमिति पाठ ऊह्यते । अत एव भिन्नत्वं तस्येन्याह परमिति । विशुद्धमित्यस्य हेयप्रतिभटामित्यर्थः । सर्वतत्त्वैरिति इत्यम्भूतलक्षणे तृतीया । तदाह भूषणोपेतमिति । अस्त्रभूषाध्यायो विष्णुपुराणे (१-२२.) 'भूषणास्त्रस्वरूपस्य यथेदमखिलं जगत् । बिभर्ति भगवान् विष्णुस्तन्ममाख्यातुमर्हसि' इत्यारभ्य द्रष्टव्यः । अनेन दिव्यमङ्गलविग्रहोपासनमपि व्यञ्जितम् । प्रदिश इति बहुव्रीहिः । सर्वा इति स्त्रीलिङ्गानुसारादबहुव्रीहिीर्वा । प्रकृष्टाः दिशः प्रदिशः। प्रकर्षः सर्वपदार्थोपाधित्वम् । प्रत्यङ् जना इत्यत्र प्रत्यङ्मुखा इति तैत्तिरीय- (ना. १३.) पाठः ।