पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ.२.] श्वेताश्वतरोपनिषत् यो देवो अग्नौ यो अप्सु यो विश्वं भुवनमाविवेश । य ओषधीषु यो वनस्पतिषु तस्मै देवाय नमो नमः ॥ १७ ॥ इती श्वेताश्वतरोपनिषदि द्वितीयोऽध्यायः ॥ अहमिति भासमानत्वं प्रत्यक्त्वम् । सर्वेषां प्रबुद्धानां वामदेवादीनामात्मान (त्मना?) महमिति प्रतीतौ परमात्मनोऽपि भासमानतया तस्य सर्वं प्रति प्रत्यक्त्वात् तस्य सर्वान् प्रति आत्मत्वमुपपद्यते । न चास्मदाद्यहम्बुद्धौ परमात्मनोऽभानात् कथमस्मदादीन् प्रति प्रत्यक्त्वमिति वाच्यम् - दोषवशादमानेऽपि योग्यत्वसत्त्वेनादोषात् । (१६)

अन्तर्यामित्या सर्वात्मत्वम् ; न तु स्वरूपेणेत्येतत् प्रदर्शयति यो देव इति । स्पष्टोऽर्थः ।। (१७)

॥ इति द्वितीयाध्यायप्रकाशिका ।। ननु सर्वस्याप्यात्मनः स्वं स्वं प्रति प्रत्यक्त्वाविशेषात् प्रत्यक्ष इति को विशेष उच्यते? न च जात इत्यादेर्विशेष्यसमर्पक प्रत्यङ् इति पदं जीवपरमेवेति वाच्यम् ... अनपेक्षिततया व्यर्थत्वात् । न च, कश्चित् धीरः प्रत्यगात्मानमेक्षत' इति कठोक्तमेष जीवं प्रति परमात्मनि प्रत्यक्त्वमिति वाच्यम् - तत्रापि विवादात् । तत्र प्रत्यवादप्रयोगः जीवात्मग्रहणार्थ इत्येव किं न स्यात् ? यद्वा पराञ्चि सन्ति खानि स्वभावतः । यस्तु प्रत्यग् यथा तथा आवृत्तचक्षुः, स आत्मानमैक्षदित्यस्यर्थस्तत्र घटते । न च परमात्मनः वं प्रति प्रत्यक्त्ववत् जीवान् प्रत्यपि प्रत्यक्त्वमस्तीति ज्ञापनार्थ प्रत्यङ् इत्युच्यत इति वाच्यम् --- असंभवात् । ज्ञातृलेययोरमेदः प्रत्यक्त्वमिति तार्किकाः । स्वविषयकज्ञानाधारत्वं तत् स्वस्य स्वस्येव भवति । स्वयम्प्रकाशत्वरूपवेदान्तिपक्षे, 'स्वस्मै भासमानत्वमिति निर्वचनं सुवचम् । तत्रापि भासमानस्य भानफलितश्चैक्यकथनात् भासमानजीवातिरिक्तस्य परमात्मनः कथं तद् घटते । किञ्चानेन, 'भिन्नभिन्नजीवानां कथमेकात्मकत्वम्' इत्याशङ्का च कथं परिह्रियत इत्यत्रोपपादयति अहमिति भासमानत्वमिति । अयं भाव - - कथमेकात्मकत्वमित्यस्य कथमेकान्तर्यामिकत्वमिति नार्थ: । वचनबलेन एकान्तर्यामिकत्वसिद्धौ कथमित्याक्षेपस्याप्रसक्ते जीवानां भिन्नभिन्नत्वस्य च एकान्तर्यामिकत्वस्य च मिथो विरोधाभावाच्च । अत: भिन्नभिन्नानामेकाभेदः कथमित्येवाशङ्का । तादृशाभेदस्वीकारे तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नयात् मिथोप्यभेदापत्तिरित्याशयः । तत्र प्रत्यङ् इति समाधिरुच्यते । जीवानां परमात्माभेदनिबन्धनं तदात्मकत्वं नोच्यते; किंतु तत्तज्जीवं प्रति परमात्मनः प्रत्यक्त्वनिबन्धनं तदात्मकत्वम् । कथं तस्य जीवं प्रति प्रत्यक्त्वमिति चेत्-