पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ३. ॥अथ तृतीयोऽध्यायः॥ य एको जालपानीशत ईशनीभिः सर्वान् लोकानीशत ईशनीभिः । य एवैक उद्भवे संभवे च य एतद्विदुरमृतास्ते भवन्ति ॥१॥ उक्तज्ञानस्य फलमाह य एक इति । ' अपहतपाप्मा दिव्यो देव' इति देवत्वेन श्रुतिप्रसिद्धः परमात्मा प्रकृतिशब्दितमायारूपवागुरायुक्तस्सन् ईशनसमर्थाभिः ज्ञानबलक्रियाशक्तिभिः मायाजालगोचरान् प्राकृतांश्च (न्) लोकानीष्टे तदगोचरान् अप्राकृतांश्च लोकानीष्टे । यश्च जगतः उद्भवे उत्पत्ती, संभवे - समित्येकीकारे -- लयापरपर्याये एकीभावे च [य] ईष्टे, तज्ज्ञानं मोक्षसाधनमित्यर्थः । (१) उच्यते । स्वविषयधिषणाधारत्वमात्रं प्रत्यक्त्वपदार्थतयोक्तं तार्किकैः । वयं तु स्वयम्प्रकाशत्वस्य प्रामाणिकतया स्वस्मै स्वेनैव भानं तदिति च ब्रूमः । न तु स्वविषयधिषणाधारत्वमुपेक्षामहे । उभयाविरोधेन च, अहमिति भासमानत्वं प्रत्यवत्वम् । भासनश्च स्वेन वा भवतु, धर्मभूतज्ञानेन वा। तत्र जैवस्वयम्भासनाश्रयत्वस्य परमात्मन्यभावेऽपि तदीयधर्मभूतज्ञानाधीनतादृशभासनाश्रयत्वं तस्यास्त्येव । अहमर्थविषयकनुमिति शब्दबोधनिदिध्यासनादीनामिष्टतया अहमर्थस्य धर्मभूतज्ञानविषयत्वापलापायोगात् । तत्र वेदान्तव्युत्पत्तिमतां वामदेवादीनां योगाद्यधीनस्य अहमितिभासनस्य परमात्माऽप्याश्रय इति स तान् प्रति प्रत्यक् । तथाभानञ्च जीवपरयोः शरीरत्मभावप्रयुक्तम् ; न त्वभेदप्रत्युक्तम् । जीवान्तरस्य चान्यं प्रति न प्रत्यक्त्वप्रसांगः । इममेव शरीरात्मभावमनुभव- पर्यन्तेन दर्शयितुं प्रत्यङ् इत्युक्तम् । काममस्तु, 'कश्चिद् धीरः प्रत्यगात्मानमैक्षत्' इत्यत्र जीवपरत्वम् , यद्वा प्रत्यक्पदं तत्र जीवपरम् ; प्रतीच आत्मा प्रत्यगात्मेति आत्मपदं परं परमात्मपरमिति ; सर्वार्थसिद्धौ जीवसरे(७)तत्प्रत्यपदग्रहणात् । इह तु प्रत्यगिति परमात्म- परमेवेति । वस्तुतो जीवं प्रति परस्य मुख्य प्रत्यक्त्वस्य दुर्वचत्वेऽपि अहमितिभासमानत्वरूपसामा- न्याकारेण तद्विवक्षेह शरीरात्मभावव्यञ्जनायाऽऽदृता श्रुताविति न कश्चिद् दोष इति । प्रत्यगित्यस्य, एवं सर्वप्रत्यक्छरीरक' इत्येवार्थवर्णनसंभवेऽपि ज्ञानिभिः परमात्मा अहमित्येव गृह्यत इति विशेषव्युत्पादनायैतद्विवक्षेति ॥ - - एवममष्टाङ्गेन योगेन आत्मतत्त्वसाक्षात्कारपूर्वकं ब्रह्मतत्त्वसाक्षात्कारसंपादनप्रकारो दर्शितः। अथ तृतीये तस्यैकस्यैव मोक्षप्रदत्वं प्रतिपाद्यते । एतं विदुरिति वक्तव्ये, एतद्विदुरिति नपुंसकप्रयोगात् उद्भसंभवनियमनकर्तुरैक्यज्ञापने नैर्भर्यं व्यज्यते । एतत् ऐक्यमित्यर्थः । (१)