पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ. ३.] श्वेताश्वतरोपनिषत् एकोहि रुद्रो न द्वितीयाय तस्थुः य इमान् लोकानीशत ईशनीभिः । प्रत्यङ् जनास्तिष्ठति सञ्चुकोचान्तकाले संसृज्य विश्वा भुवनानि गोपाः ।।२।। _ ननु ‘य एतद्विदुरमृतास्ते भवन्ती' ति पूर्वमन्त्रे सर्वलोकेशनारायणस्यैव' मोक्षसाधनज्ञानविषयतया मोचकत्वमिति यदुक्तम् , तदयुक्तम् । जगत्कारणत्वेन प्रसिद्धानां ब्रह्मादीनां ज्ञानस्यैव मोक्षसाधनत्वमिति वक्तुमुचितत्वादित्याशझ्याह एको ह्रीति । हे जनाः ! 'सर्वलोकानीशत ईशनीभिः,' प्रत्यक् तिष्ठती' ति निर्दिष्टः विश्वा भुवनानि संसृज्य सृष्ट्वा अन्तकाले सञ्चुकोच संहृतवान् , गोपाः गोप्ता रक्षिता च यः, स एक एव रुद्रः – संसाररुजं द्राव(द्रव)यतीति रुद्रः-- संसारमोचक इत्यर्थः। द्वितीयाय द्वितीयत्वाय सहायतया न केऽपि तस्थुः। सहायतया वा उपायान्तरतया वा केऽपि न स्थितन्तः । मोचकोऽन्यः कोऽपि नास्ति । 'वेदाहमेतं पुरुषं महान्तम्' इति महापुरुषं प्रस्तुत्य, 'तमेवं विद्वानमृत इह भवति ; नान्यः पन्था विद्यते' इति मार्गान्तरनिषेधात् । अत्र रुद्रशब्दो यौगिकः] ; रूढ्यर्थापेक्षया प्रकृतौपयिकस्य मानान्तराविरुद्धस्य संसारमोचकत्वलक्षणयौगिकार्थस्य मनसि विपरिवर्तमानस्य शारीरकापशूदन्यायेन बलवत्त्वात् । अस्याश्वोपनिषदो भगवत्परत्वस्य साधयिष्यमाणत्वाच्च नात्र चोद्यावकाशः । (२) 1. नारायणज्ञानस्यैव मोक्षसाधनत्वमिति यदुक्तम् । ब्रह्मादीनां सद्भावादिति ! नियमनरूपस्थितिकर्तुः उद्भवकर्तुः प्रलयकर्तुश्च प्रत्येकमेक्यं वेदनीयतयोक्तमिति न मन्तव्यम् ; किं तु सर्वकर्तुरैक्यमिति ज्ञाप्यते द्वितीयमन्त्रे। तेन, कारणज्ञानस्य मोक्षहेतुत्वात् जन्मस्थेमध्वंसकारणानाञ्च त्रित्वात् त्रयोऽपि मोक्षप्रदा इति मतिर्य्युदस्यते । एको हि रूद्र इति । नात्र एकोद्देशेन रुद्रत्वविधिः; न द्वितीयाय तस्थुरिति अनेकत्वपक्षव्युदसनेन एकत्वविधानपरत्वस्य स्पष्टत्वात् । अतो रुद्रपदमुद्देश्यसमर्पकम् । उद्देश्यश्च प्रकृतः । न च रूद्राख्यदेवताविशेषः प्राक् कण्ठोक्तः । अतो रूद्रपदेन, पूर्वोक्तो य आकारः, तद्विशिष्टो वाच्यः । तत्र पूर्वमन्त्रोक्तेष्वाकारेषु ईशितृत्वोद्भवसंभवकर्तृत्वानामत्र द्वितीयादिपादैरनूधमानतया, 'य एतद्विदुरमृतास्ते भवन्ती' त्युक्तो मोक्षप्रदत्वाकार एव शिष्यते । रूदशब्दश्च तत्प्रतिपादनौपयिक योगशक्तिसंपन्न इति स एवार्थों ग्राह्य इत्याशयेनाह संसाररुजमित्यादि । प्रत्यङ् तिष्ठतीत्यस्य प्रतीपमञ्चतीति प्रत्यङ् यथावस्थितस्वस्वरूपसाक्षात्कारवान् तिष्ठतीत्यर्थेन मायावश्यत्वाभावज्ञापकत्यादिना जालवानित्येतदनुवादत्वमपि संभवेत् । संचुकोचेति अणिजन्तप्रयोगेण स्वयं तस्य संकोचरूपलयाश्रयत्वावगमनात् ब्रह्मण उपादानत्वं दर्शितं भवति । भुवनानीत्यस्य संसृज्येत्यत्रेय अत्राप्यन्वये तु संहृतवानिति णिजर्थो ग्राह्यः । गोपाः इति च सृष्टिस्थितिलयानां सर्वेषां चेतनगोप्तत्वरूपतापनार्थम् । तत् स्पष्टं दयाशतके । तदनेन मन्त्रेण सृष्टिस्थितिप्रलयकर्तुः मोक्षप्रदस्यैकत्वमुक्तम्। - - - (२)