पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

- श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [म.३, विश्वतश्चक्षुरुत विश्वनोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां नमति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः ॥३॥ यो देवानां प्रभवश्चोद्भवश्च विश्वाधिको रुद्रो महर्षिः । विश्वत इति । 'अनेकबाहूदरवक्त्रनेत्र ' मित्युक्तरीत्या अनन्तनयनाननपाणिपादादियुक्तनित्य (?) दिव्य विग्रहयुक्तः असहाय एव द्युपृथिव्यादिसर्वप्रपञ्च [वि] निर्माता जीवान् बाहुभ्यां पतत्रशब्दितैः पद्भिश्च संन (संध) मति संयोजवति । करणकलेवरसंयोगं करोतीत्यर्थः । सर्वेषां शरीरेन्द्रियसंबन्धं कुर्वन् स्वयमनन्याधीनानन्तशरीरेन्द्रियवानित्यर्थः ।

___परमात्मोपलब्धिप्रार्थनामन्त्रमाह यो देवानामिति । ‘यान्येतानि देवत्रा क्षत्राणि, इन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशानः' इति बृहदारण्यकोतरीत्या इन्द्रवरुणरुद्रादीनामुद्भवः । उद्भवत्यस्मादित्युद्भवः । प्रकर्षेण भवत्यस्मादिति प्रभवः । प्रकर्षेण भवनं देवाधिपतित्वादिरूपेणास्य प्रभवनम् । 'अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ' इति कर्मफलदायित्वलक्षणप्रभुत्वस्य भगवद्धर्मत्वेन प्रजापतिपशुपतित्वादिपदप्रापकत्वलक्षणस्य प्रभवनस्य भगवदधीनत्वादिति द्रष्टव्यम् । विश्वाधिकः । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ' इत्युक्तरीत्या विश्वस्य ननु महीमहीधरमहार्णवादीनां स्वर्गनरकाद्यनन्तलोकानाञ्च सृष्टिकर्ताऽप्येक इति दुरभ्युपगमम् ; अल्पेऽपि कार्येऽनेकपुरुषसाहायकसव्यपेक्षताया एव सर्वत्र दृष्टेः । एवंसति का कथा सर्वेषां सृष्टौ स्थिती संहारे चैकः कर्तेति इति शङ्काम् , एकस्यैव सर्वसृष्टिकार्यार्थपरिकरसंपत्तिप्रदर्शनेन परिहतुं विश्वत इति मन्त्रः । बाहुभ्यां संयोजयतीति देवमनुष्यादिसृष्टिरुच्यते; पद्भिः संयोजयतीति तिर्यक्सृष्टिः । एवञ्च वाक्यद्वित्वात् क्रियापदावृत्तिरस्तीति ज्ञापनाय समित्युपसर्गस्य द्विः प्रयोग. । अथवा द्वितीयं समिति जनयन् इत्यनेन संबध्यते । तैत्तिरीय. नारायणेऽपि एतदर्थो द्रष्टव्यः । एवं तावत् सर्वकारणस्यैकत्वं प्रतिबोध्य तस्य मोक्षप्रदत्वमुक्तम् । अथ मोक्षहेतुबुद्धिप्रदत्वमपि तस्यैवेति प्रार्थनामन्त्रमुखेन ज्ञाप्यते । सर्वकर्तुरेकत्वस्य प्रागावेदनात् सृष्टिमात्रकर्तुतया प्रसिद्धस्य हिरण्यगर्भस्य सर्वकर्त्रभेदायोगात् , हिरण्यगर्भ जनयित्वा तन्मुखेन देवानां जनकत्वात् सर्वकर्तृत्वमित्येव वक्तव्यमिनि हिरण्यगर्भजनकत्वमप्याक्षिप्तमधस्तात् । एवं देवप्रभवत्वेन हिरण्यगर्भजनकत्वेन मोक्षप्रदत्वादिना च विशिष्टम् , अत एव विश्वाधिकं य इत्यादिनाऽनूद्य, तस्य शुभधीसंकल्पकत्वमुच्यते । अत इहापि रुद्रपदमुद्देश्यकोटिनिविष्टत्वात् न रूद्रदेवतात्यविधायकम् । किंतु पूर्वोक्तार्थकं सत् हिरण्यगर्भजनकत्वेन प्रमाणान्तरप्रसिद्ध देवतापरम् । प्रकर्षेण भवतीति । भवनमिदं देवानाम् । भगवद्गतं तु प्रभवनमन्यदित्याह प्रकर्षेणेति । प्रभवनस्य भगव.