पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

म. ३.] श्वेताश्वतरोपनिषत् हिरण्यगर्भं जनयामास पूर्वं स नो बुद्धया शुभया संयुनक्तु ॥ ४॥ या ते रुद्र शिवा तनूरघोरा पापकाशिनी। तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥ ५ ॥ यामिषुं गिरिशन्त हस्ते विभर्ष्य॑स्तवे । शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् ॥ ६॥ सर्वस्यापि तदेकदेशैकदेशतया तस्य विश्वाधिकत्यम् । संसाररुजां द्रावकतया रुद्रत्वम्, निरतिशयसार्वश्यादियुक्ततया महर्पित्वञ्च भगवतो युज्यते । एवम्भूतो भगवान्, 'यन्नाभिपद्मादभवन्महात्मा प्रजापतिर्विश्वसृडिश्वरूपः', 'तत्र ब्रह्मा चतुर्मुखोऽजायत ', ' नारायणाद्ब्रह्माजायत ' इत्युक्तरीत्या हिरण्यगर्भं सर्वेषां देवानां सृष्टेः प्राक् जनयामास । सः देवः परमात्मविषयतया शुभया बुद्ध्या योजयस्वित्यर्थः । (४)

'अदृष्टपूर्वं हृषितोऽस्मि दृष्टा भयेन च प्रव्यथितं मनो मे । तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ' इत्युक्तरीत्या सौम्यदिव्यमङ्गळविग्रहविशिष्टतया भगवत्प्रकाशप्रार्थनामन्त्रमाह या ते रुद्रेति । हे रुद्र संसाररुग्द्रावक ! प्रसिद्धरुद्रव्यावर्तनाय तं विशिनष्टि गिरिशन्तेति । गिरिशं तनोतीति गिरिशन्तः । रुद्रस्य स्रष्टेत्यर्थः । या शिवा अघोरा च पापकाशिनी पापकाशितुं शीलमस्या इति पापकाशिनी पापदाहिका वैष्णवी सात्त्विकी तनुः, तादृश्या शन्तमया सुखप्रदया अत्यन्तानुकूलया तन्वा विग्रहेण अभिचाकशीहि प्रकाशस्वेत्यर्थः । (५)

यामिषुमिति । गिरित्र । गीः वेदान्तः । तत्र त्रायते पाल्यते प्रतिपाद्यते इति वेदान्त' प्रतिपाद्यत्वं गिरित्रशब्दार्थः । गिरिशन्तेत्यस्य पूर्ववदर्थः । हे गिरित्र ! गिरिशन्त ! ते हस्ते शिवां यामिषु विभर्षि यत् आयुधं बिभर्षीत्यर्थः । तामिषुम् अस्तवे-- असु क्षेपे - मदब्रह्मज्ञानविरोधिक्षेपाय कुरु । गच्छतीति जगत् संसारपथचङ्क्रयमाणं "पुरुषं मा हिंसीः संसारान्धकूपपतितं मा कार्षीरित्यर्थः । (६)

1. तत्प्रतिपाद्यत्वं. 2. संसारचक्रभाम्यमाणं. दधीनत्वादिति । फलप्रदत्वरूपप्रभवनस्य तत्क्रियारूपतया तदिच्छाजभ्यतया तदधीनत्यम् । (४) मोक्षहेतुभूता बुद्धिः शुमेयं शुभाश्रयविग्रहविषयिणीति ज्ञाप्यते या ते इति मन्त्रण। (५) दिव्यमालविग्रहस्येव दिव्यायुधादेरपि ध्येयत्वम् । तेन ध्यायिनां दण्डनपरिहारेण परिपालनस्य कार्यत्वप्रार्थनामुखेन ज्ञाप्यते यामिषुमिति । 'अस्तवे या विभर्षि, तां शिवां कुरु' इत्यन्षयेऽपिन दोषः । अपां पत्युः शत्रून् राम इव श्रिताहिंसनेन तद्विरोधिन: क्षिपेति यावत् ।(6)