पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ३. ततः परं ब्रह्म पर बृहन्तं यथानिकायं सर्वभूतेषु गूढम् । विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वा अमृता भवन्ति ॥ ७॥ वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्ताद । तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ ८॥ ततः परमिति । उक्तप्रकारेण तत्प्रार्थनानन्तरम् बृहन्तं निरतिशयबृहत्त्वाश्रयम् अत एव परं यथानिकायं मशकमातङ्गादिशरीरानुरूप्येण सर्वभूतेषु अनुप्रविश्य अन्तर्यामितया वर्तमानम् , विश्वं व्याप्य स्थितं तमीश्वरं ज्ञात्वा मुक्ता भवन्तीत्यर्थः । (७)

तज्ज्ञानस्य मोक्षसाधनत्वमुक्त्वा इतरस्य तन्निषेधति वेदाहमेतमिति । प्रकृतेः परस्तात् ज्योतिः महापुरुषं (ज्योतिर्मयवपुषं ?) तमेव पुरुषं' विदित्वा मृत्युशब्दितं संसारमतिक्रामति । अयनाय तत्प्राप्तये अन्यो मार्गो नास्ति । एतमर्थमहं वेद जानामि । अस्मिन्नर्थे विवादो नास्तीति मुनीनां परस्परं वचनमिदम् । (८)

1. नारायणं. एवं प्रार्थनायां सत्यां मोक्षार्थध्यानं संपद्यत इति ज्ञाप्यते ततति । गूढमित्यन्तर्व्याप्तिरुक्ता । परिवेष्टितारमिति बहिर्व्याप्ति: । ततः परमित्यस्य पूर्वश्लोकोक्तात् जगतः पर मित्यर्थः शाङ्करभाष्ये। एवं ध्येयत्वेन कथितं परं ब्रह्म किं किश्चिदेवतारूपम् , उत्तान्यादृशम् । आद्ये का सा देवतेत्यत्राह वेदेति । एतम एतावत् ध्येयत्वेनोक्तमहं तमःपारवार्त्यादित्यवर्णमहापुरुषत्वेन वेदेत्यर्थः । पुरुषसूक्तानुवादोऽयमिति स्पष्टम् । तत्र च पुरुषः, 'ह्रीश्च ते लक्ष्मीश्च पत्न्यो ' इति लक्ष्मीपतित्वेन वेदितः । पुरुषशब्दश्च तस्मिन्नेव प्रसिद्धः। तथाच स्कान्दे, 'यथा पुरुषशब्दोऽयं वासुदेवे प्रतिष्ठितः । तथा शङ्करशब्दोऽयं महादेचे प्रतिष्ठितः' इति । मुनीनां परस्परमिति एतदध्यायान्तिममन्त्रानुसारेणोक्तम् । एवं सृष्टिस्थितिसंहारकारिणां ब्रह्मविष्णुरुद्राणां मध्ये विष्णोः लक्ष्मीपतेः पुरुषशब्दार्थस्यैव परब्रह्मत्वं प्रतिबोध्य, 'चतुर्मुख एष वा रुद्र एव वा तुल्यनयेन परे ब्रह्म भवतु ; त्रितयोत्तीर्णमन्यद या त्रितयहेतुः । तथाच तस्यैकस्य कारणस्य ध्यानादस्तु मुक्तिः' इत्याक्षेप क्षिपति तमेवेति । विष्णुपरब्रह्मणोरेवैक्यम् , नान्यथा। अतः चेतनान्तरं सर्वकारणं न मन्तव्यम् , नापि मुक्तिप्रदम् । अतो वासुदेव एष परदेवतेति । अत्र तमेवेति तच्छब्दोपर्येव एक्कारश्रवणात् विदित्वैवेत्य प्रवणात् स एव पन्थाः, नान्यश्चेतन इत्येव प्रतीयते । उक्तश्चेदं निक्षेपरक्षायाम् । 'महापुरुषस्य वदनमेव मोक्षसाधन मिति पराधिकरणभाष्यमप्यत एव महापुरुषस्यैव वेदनमित्येतदर्थपर्यवसायीति सुवचम् । पूर्वापरभाष्यसंदर्भः टीका च तदैव