पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ. ३.] श्वेताश्वतरोपनिषत् यस्मात् परं नापरमस्ति किश्चित् यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुपेण सर्वम् ॥ ९॥ नन्वात्मज्ञानस्यैव, 'तरति शोकमात्मवित्' इति मोक्षहेतुत्वमुच्यते । कथमादित्यवर्णविग्रहपुरुषज्ञानस्येत्याशङ्कय, अस्यैव पुरुषस्य' व्यापकत्वादात्मत्वमपि तस्यैवेत्याह -~~ यस्मादिति । " तथान्यप्रतिषेधात् " इति सूत्रे, “ यस्मादपरं परं नास्ति । केनापि प्रकारेण उत्कृष्टं नास्तीत्यर्थः ।" इति भाषितम् । व्यासार्यैश्च, " यस्मादित्यस्य परमित्यनेनान्वयोऽस्तु । यस्मादुत्कृष्टं नास्तीत्यर्थः " इत्याशशङ्क्य, "तथासति अपरमित्यस्य वैयर्थ्यप्रसङ्गात् । न च परश्चापरञ्च नास्तीति उत्कृष्टापकृष्ट- वस्तुनिषेधकत्वं शक्यशङ्कम् – नञ् आवृत्तिप्रसङ्गात् । अतो यस्मादित्यस्यापरमित्यनेनैवान्वयः । यस्मादन्यत् सर्वोत्कृष्टं नास्तीत्यर्थाश्रयणे तदन्यन्योत्कृष्टस्य वस्तुन एवाभावात् समाभ्यधिकनिषेधः फलती " ति वर्णितम् । यदपेक्षया अतिशयेनान्तः प्रवेशयोग्यं वस्तु नास्ति, यस्माच्चाधिकं विवृद्धं किमपि वस्तु नास्ति, यश्चात्प्राकृते लोके अवाप्तसमस्तकामतया ब्रह्मादिकमपि तृणीकृत्य वृक्ष इवाप्रणतस्वभावस्तिष्ठति, तेन, ' भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने ' इत्युक्तप्रकारेण पुरुषशब्दितेन भगवता वासुदेवेनेदं सर्वं व्याप्तमित्यर्थः । अनेन, 'जीवाम केने ति · चिन्ताया निस्तारो दर्शितः । पूर्णमिति व्याप्त्या आत्मत्वे कथिते देहभूतस्य जीववर्गस्य तदधीनजीवनत्वमुक्तं भवति । (६) ____i. पुरुषव्यापकत्वात् । संगच्छते । तावता वेदनातिरिक्त स्यानुपायत्वासिद्धिरिति तु न । 'तमेवं विद्वानमृत' इति एवकाररहितपुरुषसूक्तवाक्ये तद्विवक्षणसंभवात् । उभयोरैकार्योचित्येऽपि, स एनमविदितो न भुनक्तो'. (३.४)ति बृहदारण्यक वाक्यादितः तत्सिद्धे एवंसति अत्र, तज्ज्ञानस्य मोक्ष साधनत्वमुक्त्वा इतरस्य तत् निषेधतीत्यवतरणभाष्यमपि तदभिप्रायमेव ग्राह्यम् । यद्वा प्रकृतश्रुतावपि वेदन विषयत्वविशिष्टमहापुरुषान्यस्य पथित्वनिषेधे प्रकृतपुरुषव्यतिरिकस्यानुपायत्ववत् वेदनातिरिक्तविशिष्टतया महापुरुस्याप्यनुपायत्वावगमात् महापुरुषवेदनान्यस्यानुपायत्वसिद्धिरपीत्याशय इति । (6) ननु तमःपारवर्तिन आदित्यवर्णविग्रहावच्छिन्नस्य पुरुषस्य तमोऽन्तर्गतविश्वात्मकचिदचिद्विशिष्टत्वायोगात् तस्य पूर्वोत्कब्रह्मभिन्न देशविशेषस्थाविपरिच्छिन्नन्यक्तिविशेषस्योपासनादमृतत्वमिति कथमित्यत्र, पूर्वं महान्तमिति पदवेदितस्यातिसूक्ष्मत्वसर्वव्यापित्वे प्रदर्श्य, तदनिरिक्तं पूर्वोकं ब्रह्मेति मतिरपाक्रियते यस्मादिति । प्रपञ्चकारणस्य मोक्षस्थानाधिपतयेकवे हि कारणस्य मोक्ष प्रदत्वं सुस्थम् । अतः स एवायमिति भावः । पूर्ण पुरुषेण सर्वमिति पुरुषशब्न्दव्युत्पत्ति-