पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.३. ततो यदुत्तरतरं तदरूपमनामयम् । य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियन्ति ॥ १० ॥ यस्माद्धेतोः पुरुषापेक्षयोत्कृष्टं वा समं वा नास्ति । तस्मात् तदेव सर्वोत्तरं कर्मकृतरूपरहितं तत्कृतामयशब्दितदुःखशून्यच्च । तज्ज्ञानमेव मोक्षसाधनमित्युपसंहरति ततो यदिति । “ तथान्यप्रतिषेधात् " इति सूत्रे, 'ततो यदुत्तरतरीमति पूर्वनिर्दिष्टात् पुरुषात् अधिकं वस्तु न प्रतिपाद्यत ' इत्युक्त्वा, तर्हि, 'ततो यदुत्तरतर' मिति किमुच्यत इति परिचोद्य, “पूर्वत्र, 'वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाये । ति परस्य ब्रह्मणो महापुरुषस्य वेदनमेवामृतत्वसाधनम् ; नाऽन्योऽमृतत्वस्य पन्था इत्यु- पदिश्य, तदुपपादनाय, 'यस्मात् परन्नापरमस्ति किञ्चित् यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्व ' मिति पुरुषस्य परत्वं तद्यतिरिक्तस्य परत्वासंभवञ्च प्रतिपाद्य, 'ततो यदुत्तरतरं तदरूपमनामयम् । य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियन्ती" ति पूर्वोक्तमर्थं हेतुतो निगमयति । यन् उत्तरतरं पुरुषतत्वम् , तदेवारूपमनामयं यतः, ततो ये रपि दर्शिता । आदित्यवर्णविग्रहरूपपुरुषाकारत्वमपि तस्यैव । 'पूस्संज्ञे तु पुरे तस्मिन् शयनातू पुरुषो हरिः' इति सर्वव्यष्टिशरीरनिविष्टतया, 'स यत् पूर्वोऽस्मात् सर्वस्मात् , सर्वान् पाप्मन औषत् तस्मात् पुरुषः' इति सर्वपूर्ववर्तित्व-सर्वपाप्मप्रदाहकत्वरूपकारणत्वमोक्षप्रदत्वशालितया च पुरुषत्वमपि तस्यैवेति । मन्त्रोऽयं मुण्डके, तैत्तिरीयेऽपि च । 'ननु विप्रहपरिछिन्नत्वोक्त्या कर्मवष्टितत्वावगमादन्य एष उपास्यः' इति शङ्काऽपि उक्तार्थपरिशीलने स्वयं शाम्यतीति दर्शयन् निगमयति तत इति । एवं मोक्षस्थानस्थितस्यैव सर्वव्यापितायाः व्युत्पादितत्वात् • आदित्यवर्णत्ववर्णनेन कर्मकृतनिकर्षलेशस्याप्यभावस्य सुगमत्वात् , तत एव तदन्यस्य सर्वस्य कर्मकृतसामयशरीरपरिछिन्नताया अपि व्यञ्जनात् यत् उत्तरत्वेन त्वदभिमतं ब्रह्मशिवादि, ततोप्युत्तरतरं तमःपारवर्ति तदरूपमनामयञ्च, अन्यत्तु सामयरूपमिति, तदुपासन एवामृतत्वम् ; तदन्यस्य कर्मतन्त्रस्य दुःखमयस्योपासने तु दुःख प्राप्तिरेवेत्यर्थः । अरूपमनामयमित्यस्य, 'कर्मकृतदेहतत्कृतदुःखविरोधि; हेयप्रतिभटमित्यर्थः' इति पराधिकरणदीका । भामयस्यात्मसंबन्धित्वप्रसक्त्यभावात् इहामवशब्दितं दुःखम् ॥ एवं संद-