पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

म. ३.] श्वेताश्वतरोपनिषत् सर्वाननशरीरीवः सर्वभूतगुहाशयः ।। सर्वव्यापी स भगवाँस्तस्मात् सर्वगतश्शिवः ॥ ११ ॥ एतत् पुरुषतत्त्वं वेदुः, 1 एवामृता भवन्ति; अथेतरे दुःखमेवापियन्ती"ति भाषितम् । अत्र ततश्शब्द पूर्वोत्तहेतूपसंहारार्थः । न तु पूर्वप्रतिपादितपुरुषस्य प्रतिपिपादयिषितवस्त्वन्तरावधेत्वप्रतिपादनपर इति द्रष्टव्यम् । केचिदाचार्याः, " तेनेदं पूर्णमिति पूर्ववाक्ये सर्वमिदमिति प्रथमान्तनिर्दिष्टतया प्रधानस्य जगत एव, ततो यदुत्तरतरमित्या तच्छब्देन ग्रहण" मित्यूचुः । तदपि युक्तमिति वेदार्थसंग्रह- व्याख्यानेप्यु'क्तम् । ननु 'तेनेदं पूर्ण पुरुषेण सर्व ' मिति सर्वशरीरसंबन्धावगमात् तस्यापि हेयसंबन्धोऽवर्तनीय इत्याशङ्क्याह सर्वाननेति । सर्वशरीराणां तच्छरीरत्वेन सर्वाननशिरोग्रीवत्वम् ; सर्वभूतहृदयगुहाश्रयत्वात् सर्वभूतगुहाशयत्वम् । अनेनाऽऽकारेण सर्वव्याप्यपि यतो भगवान्, (तस्मात् ] 'ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हैर्यैगुणादिभि । रिति हेयप्रतिभटत्ववाचिभगवच्छब्दार्थ- तया तस्य पुरुषस्य सर्वगतत्वेऽपि शिवत्वमेव ; न त्वशुभसंबन्ध इति भावः । (११) 1. व्याख्यानोक्तम् . 2. शरणेन. र्भानुसारात तत इत्यस्य हेतु परत्वं भायोक्तं सुस्थम् । अन्यदप्यप्रतिषिद्धमनुमतमाह केचिदिति । जगतः प्रथमान्तनिर्दिष्टत्वादव्यहितरक्च तच्छब्दस्य तत्सरामर्शित्वस्य युक्तत्वं कश्चिदुक्तम् , उपपन्नमिति तत्र स्वीकृतमिति । व्याख्यानेऽपीति अपिना हेतुपरमूलव्याख्यानपरैरपि (रेव) अस्यार्थस्योक्तत्वात् मूले इदं प्रतिषेध न भवतीत्युपदर्श्यते । तदयमर्थः - उत्तरतरमित्यस्य अतिशयितोत्तरमित्यर्थात् जगदपेक्षयातिशयितोत्तरत्वोक्त्या अनतिशयितमुत्तरं किञ्चिदस्तीत्यवगमनाद् , ब्रह्मरूद्रादिरपि जगदन्तर्भूतता तत उत्तरमित्यनेन, ' द्वाविमौ पुरुषो लोके क्षरश्चाक्षर एव च इति प्रसिद्धनित्यमुक्तग्रहणम् । तिशयितमुत्तरं तु परं ब्रह्म स उत्तमः पुरुष इति । (१०) ननु विग्रहवतोऽनामयत्वमसंभवीत्यशङ्कायाम् , ' तस्य विग्रहस्येष विश्वस्यैव तच्छरीरत्वाति- शेषाद् तद्विग्रहानङ्गीकारेऽप्याशङ्का जागर्ति एवश्च तत्परिहार एवैतत्परिहारोऽपि । तत्र वैवं परिहार इत्युच्यते सर्वाननेति । संषामाननशिरोग्रीवादयः अस्याप्यानशिरोग्रीवादयो भवन्ति । तत्र हेतुः जीवात्मन इवास्यापि तत्तद्भूतगुहाशयत्वम् । न पलमतत् ; सूक्ष्मतया कार्यकारणसर्वव्यापितया माननादिरहितस्थार दिशरीरक पास्त । एवञ्च , 'एको यस्यास्ति देहः, स भवति विविधानन्तदुःखैकमोक्ताः दहः प्रमोश्चत् , स कथमतिपतेत् विश्वदुः