पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

२ - श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता अ. ३. महान् प्रभुर्वै पुरुषः सत्वस्यैष प्रवर्तकः । सुनिर्मलामिमां शान्तिमीशानो ज्योतिरव्ययः । ११ ।। तज्ज्ञानस्यैव मोक्षसाधनत्वमित्येतत् द्रढयति ---- महनिति। वैशब्दोऽवधारणे । पुरुष एव महान् प्रभुः फलप्रदानसमर्थः । अहं हे सर्वज्ञानां भोक्ता च प्रभुरेव च । इत्युक्तः (इत्यत्र ?) "प्रभुः = फलप्रद " इति भरवता भाष्यकृता व्याख्यातत्वात् प्रकृते मोक्षरूपफलस्य प्रस्तुतत्वात् महच्छन्दनमभियाहाराच्च महा- फलरूपमोक्षपदः स एवेति तस्य मोक्षहेतुत्वं पूर्वोक्तं स्थितिरिति भाव । तत्र हेतुमाह सत्त्वस्यैष प्रवर्तक इति । 'जायमानं हि पुरुष यं पायेन्मधुसूदनः । सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः । इत्युक्तरीत्या गेक्षार्थज्ञानहेतुसत्त्वगुणोन्मेषहेतुभूतकटाक्षशालितया स एव मोक्षपद इमर्थः । अत एव ज्योतीरूपनिरतिशयदीप्तियुक्तादित्य [वर्णविग्रहः ] पुरुषोऽव्ययं भगवानेव सुनिर्मलामिमां मोक्षरूपां रागाद्युपद्रवशान्तिम् ईशानः ईष्ट इत्यर्थः । (१२) स्वानुभूति' मित्याशङ्का उक्तमहापुरुषातिरिक्तपरब्रह्माङ्गीकारेऽपि भवत्येव । महापुरषे त्वियं शङ्का न भवति । स हि भगवान् । भगवच्छन्दश्च हेयप्रतिभटे योगको रूढश्चेति विष्णुपुराणादौ व्यक्तम् । प्रसिद्धश्च हेयप्रतिभटत्वमन्तर्यामिश्रुतीषु, 'एषत आत्माऽन्तर्याम्यमृतः' 'एष आत्माऽपहतपाप्मा दिव्यो देव एको नारायणः' इति । दिव इति विग्रहवैशिष्ट्यं प्रदर्शयन्त्येव श्रुतिरियमपहतपाप्मत्वमुपदिशति । (अत्राप्युक्तम , 'वृक्ष इव स्तब्धो दिवि तिष्ठत्येक' इति ।) अतो नारायणाद भगवतोऽतिरिक्तस्य सर्वदेहित्वे स दोषः पात् । अयं तु सर्वव्यापं भगवान् । अस्य तु सर्वगततत्वेऽपि शिवत्वमेव = मङ्गलत्वमेवेति। भगवच्छन्दो विष्णावेव मुख्य इति श्रीमतो रामायणादपि ज्ञायते । आह ह्युत्तरां दिशं प्रति प्रस्थाप्यमानान् प्लवङ्गमान् प्रति सोमगिरिदेशं प्रस्तुत्य सुग्रीवः, 'भगवानपि विश्वात्मा, शम्भुरेकादशात्मकः । ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः' इति । एकादशात्मकशम्भु-देवेशब्रह्मोख्यातिरिक्तो हि विश्वात्मको भगवानिहोच्यते। विष्णुपुराणेऽपि स्पष्टम् , 'एवमेष महाशब्दो मैत्रेय भगवानिति परमब्रह्मभुतस्य वसुदेवस्य नान्यगः' इति । ईश भगवत्तत्त्वं विधाय के हेतुना शिवत्वं विधीयमानं मङ्गलत्व- ममेव हि भवितुमर्हति । अत्र सर्वव्यापी स भगवार शिव इत्येकवाक्यता तु न म्वति । तस्मादिति वाक्यभेदकस्य मध्ये निविष्टत्वात् । सगतशब्दस्य सर्वव्यापिशब्दसमानार्थतया पौरूक्त्तयप्रसङ्गाच्च । (७१) एवमस्य मोक्षप्रदत्वं मोक्षहेतुबुद्धि प्रदत्वञ्चोक्तम् । अथ तद्हेतुसत्त्वप्रवर्तकत्वमप्युच्यते महानिति । शान्तिमित्यस्य क्रियासाकांक्षतया ईशान इत्यत्रान्वयः। पूर्वमपि, सर्वन् लोकानीशत ' इति सकर्मकतया अग: स्थितः । अशानिमोशन एष महान् प्रभुः सत्त्वस्य प्रवर्तक इत्येकवाक्यता वा; उत्तरार्ध पृथग् विमतिहेतुत्वविधिरूपं वा ।