पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१३

एतत् पृष्ठम् परिष्कृतम् अस्ति

10

ऐतरेयोपनिषत्


यत् पञ्चारण्यकेऽस्ति ह्युपनिषत भिधं त्वैतरेये द्वितीयं
तार्तीयीकञ्च तस्मिन् वृषगिरिशिखरोदश्चनोपास्तयस्ते ।
कर्म प्राक् कर्मखण्डे बहुफलमुदितं । तावदास्ताम् , यदेतत् ।
कर्मब्रह्मात्म संप्रत्यभिधिपदमिदं सत्यमित्युक्तमादौ ।
४४

उक्थविद्या, २-१-३.


सत्रे संवत्सरारख्ये विलसति यदुपान्त्येऽहनि, प्राकूप्रसक्तं
निष्केवल्याख्यशास्त्रं तदिह तत इहाप्युक्थमेतद् गृहीत्वा
दृष्टिं त्रेधाऽधिदैवं कथयदिह तथाऽध्यात्ममप्याह चाहं
नाथोऽस्म्युक्थं प्रजानां पुरुष इह महानित्युपास्तिं रमेश !॥ ४५

भानोरन्तर्मुहुन् यः श्रितरम ! भुवनस्यासि मध्ये स एव
प्राणात्मा संनिविष्टः ककुभ इति समारभ्य पूर्वे द्वितीये ।
आदौ प्रोच्येममर्थं विविधगुणफलान्युद्धृणत् ध्यान उक्ते
प्राहाध्याये तृतीये त्वदभिगतिफलञ्चेन्द्र ! भूताधिनाथ ! ॥ ४६

उत्कृष्टं ब्रह्मलोकः पुरुष इति वपुस्तत्र पादाच्छिरोन्तं
विंष्ट बह्मात्र शीर्षे श्रिय उदयजुषो वाङ् मनः श्रोत्रमक्षि ।
प्राणश्चेत्यत्र देहोत्थिमिकरविभवात् वाङ्मुखस्तव्य उक्थे
त्याख्यः प्राणो रमेश ! त्वमसि स पुरुषो योऽर्कवत् स्वर्णरूपः ।। ४७

वाक् तन्तिर्या हि बध्नात्यखिलमपि निजैर्नामभिस्ते विभूतिः
सैवं प्राणादि चैतत्परिचरणपरञ्चाग्निवा वादि सर्वम् ।
वाक्चक्षुश्श्रोत्रचित्तान्वित इह कथितो ब्रह्मगिर्याख्यया च
प्राणोऽकारार्थभूतत्वंदुपगतमहंशब्द्यमाहाञ्जनेश ! ॥
४८

विश्वामित्रेण चेन्द्रस्त्रिरुपगतवता कस्त्वमित्याह पृष्टः
प्राणोऽहं प्राणरूपं निखिलमपि रविश्चहमित्यङ्जनेश !।