पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ. ३.] श्वेताश्वतरोपनिषत् अङ्गुष्ठमङ्गः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः । हृदा मनीषा मनसाऽभिक्लप्तो य एतद्विदुरमृतास्ते भवन्ति ॥१३॥ सहस्रशीर्षो पुरुषः सहस्राक्षः सहस्रपात् । स भूमि विश्वतो वृत्वा ऽत्यतिष्ठत् दशाङ्गुलम् ।। १४ ।। तज्ज्ञानाधनमाह अगुष्ठमात्र इति । सर्वेषामन्तरात्माऽसौ हृदयगुहानिहि- तत्वनिबन्धनाङ्गुष्टपरिमाणयुक्तः पुरुषः हृदा भक्त्या मनीषा धृत्या युक्तेन मनसा अभिक्लृप्तः ग्रह्यः । हृन्मनीषाशब्दयोः भक्तिधृतिपरत्वम् , “ सर्वत्र प्रसिद्धोपदेशात् ' इत्या व्यासायैर्वणितम् । शिष्टं स्पष्टम् । __अङ्गुष्टमात्रशब्दश्रवणकृतपरिच्छेदभ्रान्तिं व्युदस्यति सहस्रेति । अनन्त- शिरोनयनादिव्यिविग्रहयुक्तविराङ्रूपी सन् , - दशाङ्गुलशब्देना वयवो लक्ष्यते । भूमिशब्देन ब्रह्माण्डम् – पञ्चभूतपञ्चतन्मात्रारूपदशावयवयुक्तब्रह्माण्डमतिक्रम्य परमपदे स्थिः इत्यर्थः । ___ तमसः परस्तदादित्यवर्णः स्थितः स तत्रस्यतयैव ध्येय इति विभुस्वरूध्यानवत् तदप्यशक्यमेवेति मलेशितव्यम् । स हि सैलभ्यवात्नल्यजलधिः सर्वेषामपि शरीरान्तरेव संनिविष्टस्तथोपासनेने फलप्रद इति ज्ञाप्यते अङ्गुष्ठमात्र इति । इहेदं पदं प्रमिताधिकरणोक्तरीत्या परमात्मपरम्, पश्चमे तु जीवपरम् ; प्रकरणात् । जनानां हृदयस्याङ्गुष्टपरिमाणतया तदर्वच्छिन्नस्य परमात्मस्वरूपस्य व्यापिनोऽपि अङ्गुष्ठमात्रत्वम् । एतदुपपादनायैव अन्तरात्मेत्यादि । अत्र जनानमित्यस्य अन्तरात्मेत्यत्राप्यपकर्षः । जनसंबन्ध्यन्तःकरणावच्छिन्नोऽयमात्मेति अङ्गुष्ठमात्र इत्यर्थः । सदा जनानां हृदये संनिविष्ट इत्यस्य पुनस्तदेकार्थकत्वे पौनरुक्त्यात् सर्वव्यापिरमात्मस्वरूपस्य सदा हृदयनिविष्टतया: असंदिग्धतया सदेकिकथनवैयर्थ्याच्च हाददिव्यमङ्गलविाहविशिष्टतया सदा स्थिति दर्शयितुं द्वितीयः पादः । सदेत्यनेन दिव्यमङ्गलविग्रहस्य उपासकाले परमाविर्भाव इति न मन्तब्यम् , किन्तु सर्वदा स्थितिरिति ज्ञाप्यते इत्येकोऽर्थः संभवति । अन्यस्तु अयं बध्दावस्थायां सदेहत्वावस्थायामेवान्तरात्मेति न, किन्तु सदैवान्तरात्मा, एवम्भूतरू जनहृदयसंनिविष्टत्वरूपहृदयावच्छिन्नत्यप्रयुक्तमङ्गुष्ठमात्रप्रत्वमिति । अयं द्वितीय एवार्थ इह भाष्यभिप्रेतः। (१३) सहस्रशीर्षत्यादेः, सर्वज्ञत्वात् सर्वशक्तित्याञ्च सर्वत्र शिरचक्षुःपादकार्यकरणसमर्थ इत्येतावन्मात्रपरवमपि सुबालोपनिषद्व्याख्यानादो दृष्टम् - अथापि श्रीगीताविश्वरूपाध्याय इव वास्तवानेकशीर्षत्वादेरेव सुवचत्वात् यथाश्रुतमेवार्थमाह विव्यविग्रहयुक्तविराड्रूपीति । दशाङ्गलशब्दार्थसमीक्षणं पुरुषसूक्तव्याख्याने दृष्टव्यम् । (१४)