पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [भ. ३. पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यम् । उत्तामृतत्वस्येशानो यदन्नेनातिरोहति ॥ १५॥ सर्वतःपाणिपादं तत् सर्वतोक्षिशिरोमुखम् । सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।। १६ । यस्मात् पुरुषेण व्याप्तमिदं सर्वम् , अतः भूतभव्योपक्षितं प्रपञ्चजातं पुरुषात्मकमेवेत्याह पुरुष एवेति । उक्तोऽर्थः।] उताऽमृतेति । मत्रामृतत्वशब्देन मुक्तिवाचिना मुक्तिस्थानं लक्ष्यते । अप्राकृतभोग्यभोगोपकरणसद्धं यदमृतत्वं परमपदम् अत्रे प्रकृतिप्राकृतसंबन्धे नातिरोहति नोत्पद्यते, तथाप्यमृतत्वस्यासौ ईशान इत्यर्थः । अतश्चोभयविभूतिनायकत्वमुक्तं भवति । (१५) सर्वत इति । सर्वतः पाणिपादादिकार्यकारि तत्तत्कार्यमुख्ने सर्वमावृत्य तिष्ठतीत्यर्थः । गीताभाष्ये च, 'सर्वतःपाणिपादं तत् ' इति लोकव्याख्यानसमये, “ परस्य ब्रह्मणोऽपाणिपादस्यापि सर्वतः पाणिपादादिकार्यकृवं श्रूयते । प्रत्यगात्मनोऽपि परिशुद्धस्य तत्साम्यापत्त्या सर्वतः पाणिपादादिकार्यकृचं श्रुतिसिद्धमेव, 'निरञ्जनः परमं साम्यमुपैती ति हि श्रूयते - " इति भाषितम्। (१६) 1. कारित्वात् . अत्यतिष्ठदित्यत्र न भूतकालविवक्षा, सार्वकालिकसर्वपदार्थव्याप्तेरेव विक्षितत्वादिति विवरीतुम् , अतिक्रम्य स्थितिरिय कुत्रेत्यत्र, परमपदे इति स्पष्टयितुश्च पठ्यते फूष एवेति । भव्यशब्दः, 'भव्यगेये' त्यादिना भवतीति कर्तर्थेव निपातितः। तेन वर्तमानमाम् । 'भतं भव्यायोपदिश्यत' इत्यादिस्थल इव साध्यरूपार्थविवक्षया भविष्यदर्थकश्च । तेन कान्त्रयवर्तिसर्वग्रहणसिद्धिः । अत्रशब्देन प्राकृतपदार्थै भोग्यताबुद्धिस्थितिपर्यन्तममृतत्वस दौलभ्यं दर्शितम् । ____ कार्य करणाय शीर्षाद्यपेक्षाऽपि नेत्युच्यते सर्वत इति । इति भाषितमिति । ननु जीवस्य विराड्रूपतुल्यरूपशालित्वे प्रमाणाभावात् तद्विषये तत्कार्यकृत्त्वपरतया गीताभाष्यं व्याख्यानेऽपि परमात्मनः साक्षात् तादृशविग्रहवत्त्वस्यैव संभवात् किमिति क्लिष्टे व्याख्येयमिति चेत् - उच्यते - पाण्यादिदेशे पादाद्यसंभवेन सर्वतःपाणिपादत्यादिवर्णनमपि क्लिष्टमेव । वस्तुतः पूर्व- मत्रैव, विश्वतश्चक्षुरिति मन्त्रेण तस्यार्थस्योक्तत्वात् पौनरुक्त्त्यं मा भूदिति अर्थान्तरं विवक्षता तत्र भगवद्भाष्यकारसमतिरपि दर्शितेति ध्येयम् । एतदपौनरुक्तयाय च तत्र तदर्थवर्णनम् | ननु स एवार्थ इह वर्ण्यताम् ; अयमर्थश्च तत्र । अस्तु कामम् । किं तेन वस्तुत इह सर्वेन्द्रिय- विवर्जितमिति पदं श्रूयमाणं पाणिपादाद्यभावं बोधयत् पाणिपादादिकार्यकृत्त्वरूपार्थमिह विवक्षितं दर्शयति । उपरि च अपाणिपाद इत्यादिरनुवादः । (१५)