पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ. ३.] श्वेताश्वतरोपनिषत् सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् ।। १७ ।। नवद्वारे पुरे देही हंसो लेलायते बहिः । वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ १८॥ सर्वेन्द्रियेति । सर्वेन्द्रियगुणैः सर्वेन्द्रियजन्यज्ञानैराभासः प्रकाशो यस्य तत् तथोक्तम् । इन्द्रियवृत्त्या विज्ञातुं समर्थमित्यर्थः । सर्वेन्द्रियवत्त्वमप्यैच्छिकमेव ; न स्वाभाविकमित्याह सर्वेन्द्रियविवर्जितमिति । सर्वस्य प्रभुमिति । प्रभुत्वं सेवाफल- प्रदत्वेन, ईशानत्वं नियन्तृतयेति द्रष्टव्यम् । “ निवासः शरणं सुहृद्गतिर्नारायणः' इति श्रुतेः निरवधिकवात्सल्यशालि' प्राप्यञ्चेत्यर्थः । अत्रेशानशब्दस्य नपुंसकलिङ्गत्वान्न देवताविशेषप्रत्यायकत्वशावकाश इति व्यासार्यैर्वणितम् । (१७) ननु सर्वतःपाणिपादत्वादिकं गीतामु परिशुद्धात्मस्वरूपे प्रसिद्धम् । ततश्च परिशुद्धस्वरूपस्यैव सर्वप्रभुत्वेशानत्वादिकमवगम्यत इति शिष्यशङ्कां शमयति नवद्वार इति । मलप्रस्रवणद्वारतया हेयैर्नवभिर्द्वारैर्युक्ते पुरवत् स्वात्यन्तभिन्ने अहमित्यभिमन्यमानो नानादेहसञ्चरणजङ्घालतया हंसशब्दितो जीवो नानादेहेषूच्चावचयोनिषु लेलायते गतागतं कुर्वन् परतन्त्रतया बम्भ्रमीतीति । अतः तस्य सर्वप्रभुत्वे का प्रसक्तिः ? अतः ततः बहिः बाह्य एव स्थावरजङ्गमात्मकसर्वलोकसंसारतन्त्रवाहीत्यर्थः । (१८) 1. शालित्वेन. आभासः प्रकाश इति । बाह्य विषयग्रहणमित्यर्थः । जसकलिङ्गत्वादिति । ईशानशब्दस्य शत्रन्ततया त्रिलिङ्गत्वात् तिष्ठतीति श्रूयमाणक्रियान्वयाय नपुसकत्वमेष्टव्यमिति भावः । न च प्रभुमिति द्वितीयान्तान्वयाय क्रियान्तरमध्याहार्यमिति इहापि द्वितीयान्तत्वं रूढत्वच्चास्त्विति शक्यम् - क्रियान्तराध्याहारः, वाक्यभेदकल्पना, सुहृच्छब्दे द्वितीयान्तत्वकल्पनेत्याद्यनेकदोषापत्तिमिया प्रभुमित्यत्र प्रथमान्तत्वकल्पनस्यैव युक्तत्वात् । (१५) एक्मनेकपाणिपादादिमत्वेऽपि नास्य जीवसाम्यम् । बन्धस्वरूपयोग्यताया अप्यभावादिति ज्ञाप्यते नवद्वार इति । (१८)