पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

३८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [म.३. अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स क्श्रृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥ १९ ॥ अणोरणीयान् महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥२०॥ वेदाहमेतमजरं पुराणं सर्वात्मानं सर्वगतं विभुत्वात् । जन्मनिरोधं प्रवदन्ति यस्य ब्रह्मवादिनो हि प्रवदन्ति नित्यम् ।। २१ ॥ ॥ इति श्वेताश्वतरोपनिषदि तृतीयोऽध्यायः ॥ (२०) अपाणीति । पाणिपादाद्यभावेऽपि तत्कार्यकारी इतरावेद्यः स्वयं सर्वज्ञः यः, तमादिकारणं महापुरुषं वदन्तीत्यर्थः । अणोरिति । सकलसूक्ष्मवस्त्वन्तःप्रवेशयोग्यसौक्ष्मववान् निरतिशयबृहत्त्वशाली एवम्भूतः अस्य जन्तोः प्राणिनो जीवस्य आत्मा प्रेरकस्सन् सर्वजीवस्य हृदयगुहायामास्ते । जन्तोरित्येतत् आत्मेत्यत्रापि च संबध्यते; आकाङ्क्षासत्त्वात् । गुहायामितिनिर्दिष्टहृदयगुहायामपि संबध्यते । तादृशम् अक्रतुं कर्मलेपशून्यं महामहिमशालिनमीशं यदा पश्यति, तदा धातुः धारकस्य परमात्मनः प्रसादाद्वीतशोको भवति । 'प्रसीदत्यच्युतस्तस्मिन् प्रसन्ने क्लेशसंक्षयः' इति स्मृतेः । ततश्च ध्यानसाध्यपरमात्मप्रसादनिर्वर्त्यतया ज्ञाननिवर्त्यत्वेन (प्रसादनिर्वर्त्य॑तया ज्ञानानिवर्त्यत्वेन :) बन्धस्य मिथ्यात्वं प्रत्युक्तम् । वेदाहमिति यस्य विभुत्वेन जन्माभावं प्रकषेण वदन्ति, तमजरं पुरातनं सर्वगतत्वात् सर्वात्मानमहं वेद जाने इत्येवं ब्रह्मवादिनः नित्यं वदन्तीत्यर्थ :॥ (२१) इति तृतीयाध्यायप्रकाशिका । किश्चिदाकारेण जीवसमस्यापि अदृष्टत्वविशिष्टद्रष्टुत्वादिरूपोऽतिशय उच्यते अपाणीति। (१९) एवं सहस्रशीर्षेत्यादिना प्रसक्ताशङ्कापरिहारमारब्धं समाप्य ततः प्राक्तनमन्त्रोक्तमुपसंह्रियते अणोरिति । 'जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः' इति वक्ष्यमाणमुण्डकश्रुतमन्त्रैकार्थ्य युक्तमिति अत्र यदा तदेत्यध्याहारः । अन्यथा पुनः वैराग्याद वीतशोकादिको निरन्तरध्यानकृत् तत्प्रसादात् दर्शनसमानकारं ज्ञानं लभत इति अनध्याहारेण योजनाऽपि स्यात् । मन्त्रोऽयं कठवल्लयामपि । एवं वेदाहमेतमिति मन्त्रानन्तरेण संदर्भण वक्तव्यमुक्त्वा तदर्थो निगम्यते वेदाहमिति । सर्वगतमिति हेतुगर्भविवेषणम्। विभुत्वादिति अपौनरूक्त्याय प्रभुत्वार्थकं सत् उत्तरार्धान्वयि ॥(२१)