पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

my अ. ४.] श्वेताश्वतरोपनिषत् ॥ अथ चतुर्थोऽध्यायः॥ य एको वर्णो बहुधा शक्तियोगाद्वर्णाननेकान् निहितार्थो दधाति । वि चैति चान्ते विश्वमादौ स देवः स नो बुध्या शुभया संयुनक्तु ॥ १॥ तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः । तदेव शुक्रं तद् ब्रह्म तदापस्तत् प्रजापतिः ॥२॥ त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥३॥ - - - ब्रह्मणः सर्वविधकारणत्वं प्रपञ्चयिष्यन् तद्विषयबुद्धिप्रार्थनामन्त्रमाह य एक इति । 'अकारो वै सर्वा वाक् । सैषा स्पर्शोपष्मभिरभिव्यज्यमाना वह्नि नानाविधा भवतीति ऐतरेयश्रुतेः, एकः अवर्णः निहितार्थः अर्थः = परं ब्रह्म स्ववाच्यत्वेन निहितः यस्मिन् तथोक्तः परमपुरुषार्थभूतब्रह्मवाचक:--'अकारेणोच्यते विष्णु रिति श्रुतेः- तादृशोऽवर्णः सर्वान् वर्णान् दधाति उत्पादयति । [स] विश्व 'कृत्स्न प्रपञ्चम् अन्तकाले व्येति-अन्तर्भावितण्यर्थोऽयम्----गमयति नाशयति । स देवः शुभया बुध्या योजयतु । अत्र वाच्यवाचकयोरभेदोपचारात् स देव इत्युक्तिः । (१) तस्य देवस्य सार्वात्म्यमाह तदेवाग्निरिति । शुक्र रोचिष्ठम् । नक्षत्रमण्डलमित्यर्थः । शिष्टं स्पष्टम् । तदेव सार्वात्म्यं संबोधनेनाह त्वं स्त्रीति । दण्डेन आलम्बनेन जीर्णः वृद्धस्सन् वञ्चसि संचरसि । अत्यल्पमिदमुच्यते । त्वमेव सर्वरूपो जातोऽसीत्यर्थः । (३) ब्रह्मवाचकशब्दानां जगद्वाचकशब्दैः सामानाधिकरण्येन व्यवहारः न स्वरूपैक्यनिबन्धनः ; किं तु मिथोभेदे सत्येव मुख्यः स्थित इति व्युत्पादनमत्र तुरीयेऽध्याये क्रियते । मेयं शुभा बुद्धिः प्रार्थ्यते प्रथमम् य एक इति । शब्दस्य अपर्यवसानवृत्या ब्रह्मपर्यन्तवाचित्वरूपमहिमवशात् सामानाधिकरण्येन निर्देश इति ज्ञापनप्रवृत्तत्वादेवोपक्रमे अकारादन्येषां वर्णानामुत्पत्ति प्रस्तावः । अत एव अवर्ण इत्यस्य वर्णरहित इत्यर्थवर्णनेन नीलादिवर्णानां ब्राह्मणादिवर्णानां वोत्पादकत्वपरतया मन्त्रव्याख्यानमानादेयम् । निहितार्थ इत्यर्थपद-वर्णादममभिव्याहारबलस्वरसप्रतीतशब्दरूपवर्णत्यागश्च न युक्तः । एवं प्रतिपाद्ये ब्रह्मणि अकारवाच्यत्वप्रतिपादनादयमध्यायोऽपि नारायणमेव अकारवाच्यं ब्रह्मत्वेन बुबोधयिषतीति ध्येयम् ।