पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

४० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.४. नीलः पतङ्गो हरितो लोहिताक्षस्तटिद्गर्भ ऋतवः समुद्राः । अनादिमत्त्वं विभुत्वेन वर्तसे यतो जातानि भुवनानि विश्वा ॥४॥ अजामेकां लोहितशुक्लकृष्णां वह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनु शेते जहात्येनां भुक्तभोगामजोऽन्यः ।।५।। नील इति । नील-हरित-लोहिताक्षभेदभिन्नः पतङ्गः पक्षी त्वमेव ; [तटिद्गर्भः] ऋतवः समुद्राश्च । त्वमेवानादिः । यतो विश्वानि भूतानि जातानि, तदपि त्वमेव ; निखिलजगत्कारणमपि त्वमेवेत्यर्थः । नीलपतङ्गाद्यत्मत्वमपि न स्वरूपेण; अपितु व्यापकत्वेनाऽऽत्मत्वादित्येतत् प्रदर्शयति विभुत्वेन वर्तस इति । यतस्त्वं व्याप्य आत्मतया वर्तसे, तत सर्वात्मत्वमित्यर्थः । (४) 'भोक्ता भोग्यं प्रेरितारश्च मत्वा', 'क्षरं प्रधानममृताक्षर 'मिति पूर्वनिर्दिष्टचिदचिद्विवेकं दर्शयति अजामेकामिति । तेजोवन्नलक्षणविकारगतलोहितशुक्लकृष्ण- रूपयुक्तां स्वसमानरूपविविधभूतभौतिकस्रष्टीमुत्पत्तिरहितां काश्चन कश्चिदविद्वान् उत्पत्तिराहित्येन तत्समान एव सन् तत्राहम्बुध्या सेवमानः तामनुसृत्य शेते तिष्ठति । अपरो विद्वान् कश्चित् कालं भुक्वा उत्पन्नवैराग्यः त्यजतीत्यर्थः । नन्वस्मिन्नजामन्त्रे स्वरसत एतावान् अर्थः प्रतीयते - काञ्चित् छागीं त्रिवर्णां स्वसरूपबहुप्रकाराम् (प्रजाकरीम् !) एकश्छागः प्रीयमाणोऽनुवर्तते; अन्यः तामुपभुक्तां त्यजतीति । कथं भवदुक्तप्रकृतिरुपार्थग्रहणम् ? यदि चाध्यात्मशास्त्रे लौकिकार्थप्रतिपादनानौचित्यात् आध्यात्मिकार्थे पर्यवसानं कर्तव्यमिति, तर्हि 'द्वा सुपर्णा । इति मन्त्र वृक्षसुपर्णपिप्पलशब्दैः शरीरजीवकर्मफलानां गौण्या वृत्त्या ग्रहणवत् , 'गौरनाद्यन्तवती' इत्यत्र गोशब्देन गौण्या वृत्त्या प्रकृतिग्रहणवत् इहाप्यजाशब्देन गौण्या वृत्त्या प्रकृतिग्रहणं युक्तम् । न तु यौगिकार्थग्रहणम् । रुढिपूर्वकलक्षणाविशेषरूपगौण्यपेक्षया योगदौर्बल्यस्य प्रोद्गात्रधिकरणे स्थितत्वात् । विभुत्वेन वर्तसे इत्युक्तम् । इयश्च व्याप्तिः अचेतने चेतने चेति विस्तरेण ज्ञाप्यते शरीरात्मभावनिबन्धनमेव सामानाधिकरण्यमिति विवेकार्थम् अजामित्यादिना । लोहितशुक्लकृष्णामिति पृथिवीपर्यन्तसमाष्टिरूपेण परिणामो विवक्षितः। उपरि व्यष्टिसृष्टिः ।