पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ, ४.] श्वेताश्वतरोपनिषत् ४१ - इतरथा, 'प्रैतु होतुश्चमसः प्रोद्गातृणा ' मित्यत्रापि यौगिकवृत्त्या उद्गात्रादीनां चतुर्णां ग्रहणं स्यादिति चेन्न --- मुख्यार्थानुपपत्तौ हि गौणार्थाश्रयणं युज्यते । उपपद्यते चाजाशब्दे यौगिकार्थस्य मुख्यस्य ग्रहणम् । न चैवं प्रोद्गातृन्यायविरोधः । तत्र पाशन्यायेन बहुत्वाविवक्षा नास्ति ; प्रोद्गातृशब्दयौगिकार्थबहुत्वस्य संभवात् । 'अदितिः पाशान् प्रमुमोक्तु ' इत्यत्र रूढ्यर्थस्य वा यौगिकार्थस्य वा पाशशब्दार्थस्य बन्धनसाधनस्यासंभवात् बहुत्वाविवक्षा । इह तु तत्संभवात् नाविवक्षेत्येवं (व!) तदधिकरणस्थितिः । न तु रूढिपूर्वक लक्षणापेक्षया योगस्य जघन्यत्वमित्यपि । नन्वेवं सुब्रह्मण्यस्यापि गानकारितया योगार्थत्वात् तस्यापि ग्रहणप्रसङ्ग इति चेन्न-तस्य सदसि स्थित्यभावेन तत्साधारण्याभावात् । मीमांसकैकदेशिभिः तत्साधारण्यस्याभ्युपेतत्वाच्च । ततश्च यौगिकार्थस्य मुख्यस्याजाशब्दार्थस्य संभवे पररीत्या छागत्वरूपणं गौणवृत्त्याश्रयणञ्चायुक्तम् । 'गौरनाद्यन्तवती'त्यत्र गोशब्दे यौगिकार्थास्फुरणात् , 'सर्वकामदुधा मिति दोहनस्य गोशब्दरूढ्यर्थग्रहणनियामकस्य सत्त्वाच्च तत्र तथा ; इह तु योगार्थस्फूर्ते: रूढ्यर्थग्रहणनियामकशब्दान्तरसमभिव्याहाराभावाच्च यौगिकार्थ एवग्राह्यः। किञ्च इह रूढ्यर्थग्रहणे समभिव्याहृतानाम्, 'बह्वीः प्रजास्सृजमानाम् । इत्यादीनां संकोचः स्यात् । छाग्याः प्रकृतिवत् सकलप्रजास्रष्टत्वासंभवात् । सकल- प्रजासर्गकरप्रकृत्यामल्पप्रजासर्गकारिच्छागीत्वपरिकल्पनस्य विच्छित्तिविशेषाहेतुत्वात् । न चैवम् , ' आत्मानं रथिनं विद्धी ' त्यादी आत्मशरीरादौ रथिरथत्वादिकल्पनमपि न विच्छित्तिविशेषजनकं स्यादिति वाच्यम् । तत्र रूप्यरूपकवाचिपदद्वयश्रवणबलेन वशीकार्यताप्रतीत्युपयुक्ततया च रूपणमङ्गीक्रियते । प्रकृते तु रूप्यरूपकवाचिपदद्वयाश्रवणात् , तद्वदनोपयोगाभावाच्च न छगत्वपरिकल्पनम् । 'द्वा 1. लक्षणाया योगापेक्षया । तत्साधारण्यस्याभावादिति । अत एव तस्य गानकारिगणान्तर्गतत्वेऽपि गानकारित्वरूपयोगार्थवत्त्वमपि नास्तीति भावः । एकदेशिभिरिति । सूत्रभाष्यस्वरसगतिमनुगतैः प्रामा- करैरित्यर्थः । ३. ५. ५. प्रोद्गात्राधिकरण इदं द्रष्टव्यम् । यौगिकार्थस्य मुख्यस्येति । अन्यथा, अजोऽपि सन् अव्ययात्मे' त्यादावपि छागस्य कथमपि ग्रहणं कर्तव्यं स्यादिति भावः । -