पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

रङ्गरामानुजमुनिविरचितभाष्ययुक्त [अ. ४. सुपर्णेति मन्त्रेऽपि वृक्षादिशब्दैर्योगवृत्त्याऽर्थग्रहणं युक्तम् । समासोक्त्या अर्थान्तरस्फूर्त्या विच्छित्तिविशेषोऽस्तीत्येतावन्मात्रम् । यदि च न वृक्षादिशब्दैः (ब्दे :) यौगिकार्थग्रहणम् , तर्हि, गौरनाद्यन्तवती तिवदस्तु । प्रकृते तु अजाशब्दे यौगिकार्थस्य स्फुटप्रतीतेः योग एव ग्राह्यः । एतत् सव, “ कल्पनोपदेशा" दिति सूत्रभाष्यश्रुतप्रकाशिकयोः स्पष्टम् । अनेन प्रकृतिस्वरूपं बद्धमुक्तस्वरूपञ्चोक्तम् । नन्वजाशब्देन अकार्यत्वप्रतिपादनात् सृजमानामिति कर्त्रर्थशानचा स्वातन्त्र्यलक्षणकर्तृत्वप्रतीतेः अब्रह्मात्मिकैव प्रकृतिरनेन मन्त्रेणाभिधीयतामिति चेत् --- एवमेव समन्वयाध्याये पूर्वपक्षे प्राप्ते उच्यते - " चमसवदविशेषात् " | ‘अर्वाम्बिलश्चमस ऊर्ध्वबुध्नः तस्मिन् यशो निहितं विश्वरूप ' मिति मन्त्रे, 'अर्वाम्बिलश्चमस' इति ऊर्ध्वबिलतिर्यम्बुध्न- प्रसिद्धचमसव्यावर्तकस्य शिरसश्चमसत्वप्रत्यायकस्य वाक्यशेषस्य सद्भाववत् इह अस्वतन्त्रप्रकृतिव्यावर्तकस्य सांख्याभिमतस्वतन्त्रप्रकृतिप्रतिपादकस्य वाक्यशेषस्याभावेन स्वतन्त्रा प्रकृतिरिहाभिधीयत इति निर्णयासंभवात् । ब्रह्मात्मकत्वेऽपि जनिराहित्यस्योपपत्तेः । परतन्त्रेऽपि तक्षादौ, 'तक्षति काष्ठ ' मिति कर्त्रर्थप्रत्ययदर्शनेन तावन्मात्रेण अपरतन्त्रपकृतित्वनिश्चयासंभवात् । ननु ब्रह्मात्मकप्रकृतिग्रहणेऽपि नियामकाभावात् संदेह एव स्यात् । तत्राह, "ज्योतिरुपक्रमा तु तथा ह्यधीयत एके"। 'अथ यदतः परो दिवो ज्योतिर्दीप्यते'इत्यादौ ज्योतिश्शब्देन ब्रह्मनिर्देशदर्शनात् इह सूत्रेऽपि ज्योतिश्शब्देन ब्रह्मोच्यते । उपक्रमशब्दः कारणत्वार्थकस्सन् आत्मत्वं लक्षयति । मृत्कारणकस्य घटादेः मृदात्मकत्वदर्शनात् । तथाच (ततश्च) ज्योतिरुपक्रमा=ब्रह्मात्मिकेत्यर्थः । ब्रह्मास्मिकैवाजेह मन्त्रे ग्राह्या । योग एव ग्राह्य इति । रूढ्यर्थग्रहणे अजेयं संगमार्हावस्थापन्ना वा अन्या वा। अन्त्ये, एकोऽजो न जुषाणोऽनुशयात । आद्ये, तामन्योऽजः, इयं प्राग् भुक्तभोगा, तस्मान्माऽस्तु इति जुगप्सया त्यजतीति लोके किं दृष्टम् ? प्रबलेनाजेन स्पर्धितुमशक्त्या तु त्यजेत् । अतो न रूढ्यर्थान्वय इत्यप्याशयः। परतन्त्रऽपि तक्षादानेति । भृतिलिप्सया पर प्रेरणावशादेव हि स तक्षति । तथापि तस्य श्रुतकारकान्तर व्यापारानधीनव्यापारशालित्वरूपकर्तृत्वविवक्षा निराबाधा । तथैवेद्दापीति भावः ।