पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ४. द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति ॥६॥ समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ ७ ॥ प्रकृतिसंबन्धाविशेषेऽपि जीवस्य भोक्तत्वम् ; न परमात्मन इत्येतत् दृष्टान्तमुखेन प्रदर्शयति द्वा सुपर्णेति । युज्यत इति युक्छब्दो गुणपरः । “समान- गुणकः सयुक्" इति व्यासार्यैर्विंवृतत्वात् । सखायौ परस्पराविनाभूतौ गमन- साधनत्वेन पर्णशब्दितपक्षसदृशज्ञानादिगुणवन्तौ समानम् एकं वृक्ष वृक्षवत् छेदनार्हं शरीरं समाश्रितौ । तयोर्मध्ये एको जीवः परिपक्वं पिप्पलमश्वत्थफलसदृशं कर्मफलमश्नाति । इतरतु परमात्मा अनश्नन्नेव अपहतपाप्मत्वादिमहामहिमशाली वर्तत इत्यर्थः । अत्र शरीर तदाश्रयजीव-परवाचिशब्दनिगरणेन विषयिवाचकवृक्ष-सुपर्णादि- शब्दैः वृक्षत्वाद्यध्यवसानलक्षणा रूपकातिशयोक्तिविच्छित्तिविशेषायेति केचित् । वृक्षा- दिशब्देन योगवशाच्छरीरादिप्रतीतिः ; न तु रूपकातिशयोक्तिरित्यन्ये ।। (६) समान इति । अनीशया भोग्यभूतया प्रकृत्या मुह्यमानः, “पराभिध्यानात्तुतिरोहित"मिति सूत्रोक्तन्यायेन तिरोहितपरमात्माशेषत्वज्ञानान्दलक्षणस्वस्वरूपस्सन् वृक्षवच्छेदनार्हे, एकस्मिन् शरीरे जीवः, 'स्थूलोऽहं ' 'कृशोऽह । मिति तादाम्यबुध्या पांसूदकवत् तदेकतामापन्नस्सन् तत्संसर्गकृतानि दुःखान्यनुभवति । यद। असौ जीवो निमग्नात् स्वस्मात् धारकत्वनियन्तृत्वशेषित्वादिना विलक्षणं स्वकर्मभिः प्रीतं परमात्मानम् , अखिलजगदीशनलक्षणमस्य महिमानच्च पश्यति , तदा वीतशोको भवतीत्यर्थः । केचित्तु-अनीशया अनीशत्वेन असमर्थत्वेन शोचन् स्वोद्धरणसमर्थ स्वयं पङ्कादावनिमग्नं स्वस्मिन् प्रीतिमन्तं तदुद्धरणसामर्थ्यलक्षणमहिमानञ्च दृष्टा बद्धमुक्तलक्षण्यमुक्तम् । जीवब्रह्मवैलक्षण्यमुच्यते द्वा इति । ज्ञानशक्ती पर्णे । शक्तिश्च बद्धे कर्मवासनादिरूपा : अश्वत्थफलेति । कर्मफलस्य क्षयित्वात् श्वो न स्थास्यतीति युज्यते अश्वत्थत्वम् । तादृशेऽप्यहो स्वादुताबुद्धिर्बद्धस्य । (६) अस्य बद्धस्य , ' जहात्येनां भुक्तभोगा' मित्युक्तावस्थालम्भनार्थमेव स इहाभिचाकशीतीति स द्रष्टव्य इत्युच्यते समानश्ति । जुष्टमिति । तस्य प्रीतिः अस्य तस्मिन् प्रीतिरूपापन्नदर्शनायत्ता । दर्शनस्य प्रीतिरूपापन्नता च महिम्नो वेदने निरतिशयैश्वर्यादिना सर्वप्रकारानन्द-