पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

11

तद् योऽसौ सोऽहमेवं तपनपुरुषयोस्त्वद्वयतीहारकर्तुः
या प्रज्ञा देवता या यदमृतमपि यद् ब्रह्म तत्तन्मयत्वम् ॥ ४९

उक्थेऽस्मिन् पाञ्चविध्यं बहु ननु बृहतीछन्दसां यत् सहस्त्रं
संपन्नं पूरुषायुर्दिनसमगणनाऽप्यक्षराणामिहोक्ता।।
श्रीमन् ! इत्थं बहूक्त्वा त्वथ पुनरुदयेऽप्यत्र मुक्ते निषिद्धा
बीभत्सा यत् स न स्त्री पुरुष उपगतो धूतपाप्मा पदं ते ।। ५०

निष्कामान् काममारं कमपि रथमधिष्ठाय त प्राप्तिहेतुं
वागुद्धिं श्रोत्रचक्रं महितरम ! मनस्सारथिं नेत्रवाहम् ।
प्राणात्मा बद्धजीवान् कठकथितवशीकारदक्षान् प्रसन्नः
पासीत्थं पञ्चकस्तुत्युपकलनवतीमुक्थविद्यमुवाच ।। ११२४- ६.)

ऊर्ध्वञ्चाथान्तरिक्षं क्षितिरतलमुखञ्चेति लोकान् अथैत-
त्पालान् अक्षाधिपाख्यान् श्रितरम ! विदधत् साशनायां पिपासाम् ।
अक्षाणीशांश्च सृष्टे पुरुष इह निवेश्यान्नमेषाञ्च सृष्टा
तत्तच्छक्त्यर्पणाय स्वयमिह पुरुषे व्याप्त इन्द्रस्त्वमात्मा ।। '५२

गर्भाधाने, प्रसूतेरुपरि च, मरणञ्चानु, जन्मास्य विद्यात्
गर्भस्थो वामदेव मुहुरिह निजजन्माऽऽह कारापुरेषु ।
प्रज्ञानं ब्रह्म नेताऽखिलकरणमहाभूतविध्यादिदेव-
क्षुद्राक्षुद्रान्तरात्मा त्वमिति वित् अमृतस्ते पदे श्रीश! पूर्णः ॥ ५३

तार्तीयीके च तिर्त्तियनिहितसदृशः संहितोपास्तिभेदः
काम्यः प्रोक्तोऽक्षरोपासनमपि विविधं तत्र वेद्यः क्वचित् त्वम् ।
देहश्छन्दोऽथ वंदस्त्रय इह पुरुषास्त्वं महापुरुषध
श्रीमान् आदित्यवर्ती सकलजनलयोत्पादकर्ता यदुक्ताः।। ५४ (३.२ ४.

प्रज्ञात्मा दैहिकात्मन्यकथि रस इति श्रीश ! तस्यैक्यचिन्ताम्
आदित्यान्तःस्थितेन प्रथयति ; मरणासत्तिलिङ्गं बहूक्तम् ।