पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ. ४.) श्वेताश्वतरोपनिषत् ऋचोऽक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य इत् तद् विदुस्त इमे समासते ॥८॥ छन्दांसि यज्ञाः क्रतयो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति । वीतशोको भवति । तत्समाधिरत्नानुसन्धेयः । “ अनीशया प्रकृत्ये " ति भाष्यमपि अर्थतो व्याख्यानपरम् । ; न त्वनीशाशब्दार्थतयेति वदन्ति । (७) ऋच इति । न क्षरतीत्यक्षरम् । तादृशे, ऋचः ऋक्छब्दोपलक्षितवेदजातस्य परमे व्योमन् परमाकाशे परमतात्पर्य विषये यस्मिन्नक्षरे सर्वे देवाः समाश्रिताः, तत् अक्षरं यो न वेद, सः अधीतेन ऋग्वेदादिना किं करिष्यति ? 'स्थाणुस्यं भारवाहः (हारः) किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । ', 'एतद्वै तदक्षरं गार्गि अविदित्वाऽस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि , अन्तवदेवास्य तद् भवतीनि श्रुतेः । ये च तदक्षरं जानन्ति , ते निरस्तप्रतिकूलाः सुखमासत इत्यर्थः । इमं मन्त्रं विश्वदेवशब्दितनित्यसूर्याश्रयपरमस्थानपरतयापि योजयन्ति । 'तदक्षरे परमे व्योमन् । इत्यस्य वेदार्थसंग्रहे स्थानपरतया योजितत्वात् । (८) छन्दांसीति । वेदं वैदिकमर्थ जातं मायाप्रेरकः परमात्मा अमात् मायाब्दितात् साधनात् सृजते । अतश्च अपरिणामिनोऽप्युपादानत्वमविरुद्धम् । ननु जीवस्य रूपत्वस्य तस्मिन् ज्ञानादिति ज्ञापनार्थ महिमानमित्यधिकमुक्तम् । एतन्मन्त्रद्वयविवरणं मुण्डकेऽपि द्रष्टव्यम् । (५) तज्ज्ञानातिरिक्तोपायनिषेधपरम् ऋचोक्षरइति । वीतशोकत्वं प्रागुक्तं यत्र देशे सम्यगासिकायां संपद्यते, तद्देशप्रदर्शकं वा । तथाच अक्षरपदं परमात्मपरं वा स्थानपरं वेति । (6) किमृचा करिष्यतीति ऋगादिवैयर्थ्ये वर्णिते, तर्हि किमर्थं तस्यस्थितिरित्याशङ्का प्राप्ता। तत्रोच्यते छन्दांसीति । सर्वं निरोधार्थमेव, बन्धनार्थमेवेति भावः । अस्मादित्यस्योपादानपरत्वं पञ्चमीस्वारस्यादवगम्यते । उपादानाञ्च प्रकृतिः प्राक् अजाम् अनीशयेति स्त्रीलिङ्गनिर्दिष्टा । अथापि सामान्ये नपुंसकमिहेति सूचयति साधनादिति । ननु ईश एवोपादानभूतः अस्मादिति गृह्यताम् । न च तर्हि मायीति निर्दिष्टः तस्मादन्यः प्रसजेदिति वाच्यम् - तथासति