पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

अ. ४.] श्वेताश्वतरोपनिषत् यो योनि' योनिमधितिष्ठत्येको यस्मिन्निदं सञ्च वि चैति सर्वम् । तमीशानं वरदं देवमीढ्यं निचाय्येमां शान्तिमत्यन्तमेति ॥ ११ ॥ यो देवानां प्रभवश्वोद्भवश्च विश्वाधिपो ! रुद्रो महर्षिः। हिरण्यगर्भं पश्यत जायमानं स नो बुध्या शुभया संयुनक्तु ॥१२॥ 1. योनिर्योनिं । यो योनिमिति । योनिशब्देन जगद्योनिभूता प्रकृतिरुच्यते इति व्यासार्यैर्व्याख्यातम् । न च तथा सति तस्या एकत्वात् वीप्सानुपपत्तिरिति शङ्क्यम्- महदादीनामपि पञ्चभूतात्मकजगद्योनित्वेन वीप्सोपपत्तेः । ततश्च जगद्योनिभूतान् प्रकृतिमहदादीन् योऽधितिष्ठति , यस्मिंश्च विश्वमेतत् उत्पत्तिकाले वियदादिरूपेण व्येति वैविध्यमेति; संहारकाले च समेति ऐक्यं गच्छति । तादृशमाश्रिताभीष्टदायिनं तमेव दर्शनसमानज्ञानेन विषयीकृत्य रागद्वेषादिप्रागभावासहकृतत्वलक्षणात्यन्तिकत्वोपेतां श्रुत्यादिसिद्धां सर्वानर्थशान्तिमाप्नोतीत्यर्थः । 'यस्मिन्निदं सञ्च वि चैति सर्व' मिति प्रतिपाद्यमानमुपादानत्वं निर्विकारस्याऽऽत्मनः कथमिति शङ्कावारणाय , 'योनिं योनिमधितिष्ठती ति प्रकृत्यादिशरीरकत्वादुपपद्यत इति शिष्यानुग्रहार्थ पुनः पुनः कथनमिति द्रष्टव्यम् । (११) तज्ज्ञाने तदनुग्रह एव कारणमिति तं प्रार्थयते यो देवानामिति । यो [ देवानां ] जायमानं हिरण्यगर्भम् , ' असावप्रतिहतज्ञानादियुक्तस्स्या दिति सानुग्रहमैक्षत । स मां वीक्षतामिति भावः । (१२) अस्मान्मायी सृजते इति निमित्तकारणत्वं ब्रह्मणोऽवगमितम् ; उपादानत्वमपि तस्यैवेत्युच्यते यो योनिमिति । वीत्सोपपत्तरिति । अष्टौ प्रकृतय' इति प्रकृतित्वं तेषामपि हि प्रसिद्धमिति । टीकायां योनिमित्येकादमात्र व्याख्यानम् , 'यो योनिर्योनि' मिति पाठानुरोधेनेत्यपि सुवचम् । योनिरिति ब्रह्मविशेषणम् । (११) अद्वारकसमष्टिकारणस्य व्यष्टिहेतुत्वं हिरण्यगर्भद्वारकं प्रमाणान्तर प्रसिद्धमनूद्य बुद्धि प्रार्थना क्रियते यो देवानामिति । उक्तरीत्या देवादिसर्वनिमित्तोपादानभूतः हिरण्यगर्भमुत्पाद्यानुगृह्णाति । तेन स निमित्तमात्रं भवति । अत्रापि पूर्ववत् रुदत्वं न विधेयम् ; अनुवादान्तर्गतत्वात् । (१२) .