पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

४८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [भ. ४. यो देवानामधिपो यस्मिन् लोका अधिश्रिताः । य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥१३॥ सूक्ष्मातिसूक्ष्म कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिमत्यन्तमेति ॥ १४ ॥ स एव काले भुवनस्य गोप्ता विश्वाधिपः सर्वभूतेषु गूढः । यस्मिन् युक्ता ब्रह्मर्षयो देवताश्च तमेवं ज्ञात्वा मृत्युपाशाश्छिनत्ति ॥१५॥ यो देवानामधिप इति । सर्वचिदचित्प्रपञ्चशेषिणे सर्वाधारभूताय सकलनियन्त्रे तस्मै परमात्मने पुरोडाशादिहविषा पूजां कुर्वीमहीत्यर्थः । यज्ञादिभिः तदाराधनं तदुपासनद्वारा तत्प्राप्तिसाधनमिति भावः । सूक्ष्मातिसूक्ष्ममिति । सूक्ष्मवस्तुष्वप्यन्तःप्रवेशयोग्यं कार्यब्रह्माण्डमध्ये हिरण्यगर्भप्रजापत्याद्यनेकरूपेणावस्थाय विश्वस्रष्टारं सर्वान्तर्यामित्वेऽप्यनवद्यमद्वितीयं परमात्मानं ज्ञात्वा मुक्तो भवतीत्यर्थः । स एव काल इति । ब्रह्मविदो मुनयो देवताश्च यत्र मनो योजयन्ति , स एव परमात्मा कर्मपरिपाककालविशेषे जगतः गोप्ता संसारमोचकः ; कुतः ? विश्वाधिपः सर्वभूतेषु गूढः । सर्वशेषित्वात् सर्वान्तर्यामित्वाच्चेत्यर्थः । शेषशेषिभावशरीरात्मभावसंबन्धसत्त्वात् तादृशस्य शक्तस्य मोचकत्वौचित्यादिति भावः । तमेवमिति । अनेनाऽऽकारेण तं जानन् दर्शनसमानाकारज्ञानेन विषयीकुर्वन् मुक्तो भवतीत्यर्थः । (१४) , ननु निष्कामकर्मकरणात् बुद्धिः शुभा जायते । कर्माणि च नानादेवताप्रोत्यर्थानि । तत् कथं स नो देव इत्यदि ? इत्यत्र, सर्वान् देवान् प्रत्यपि तस्यान्तरात्मत्वात् स एव सर्वकर्मसमाराध्य इति ज्ञाप्यते यो देवानामधिप इति । अत्र शेषित्वाधारत्वनियन्तृत्वरूपं त्रयमपि आत्मत्वप्रयोजकमुदितम् ! कस्म इति तस्मै इत्यत्र पर्यवसन्नम् । तं विना अन्यस्मै कस्मै हविषा कर्म कुर्याम, तस्मै एकस्मै सर्वदेवात्मने कुर्यामेत्यर्थः । एवञ्च देवानां काम्यकर्माराध्यत्वेऽपि निष्कामकर्माराध्यत्वं न भवतीति अत्र सूचितम् । (१३) सर्वान्तर्यामित्वेऽप्यनवद्यत्वमित्यनुसंधाप्यते सूक्ष्मेति । (१४)